पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ॥ प्रदाय संभाव्य वरं मुनीशो द्वैपायनः सोऽन्तरधाद्यतात्मा ।। ५८ ।। इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मि नन्तर्विवेकनिधिरप्यथ विव्यथे सः ॥ हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषह्म: ।। ५९ ।। तत्पादपमे निजचित्तपत्रे पश्यन्कथंचिद्विरहं विषह्या ॥ यतिक्षितीशोऽपि गुरोर्नियोगा न्मनो दधे दिग्विजये मनीषी ॥ ६० ॥ भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान्मुनीन्द्रः ॥ वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥ ६१ ॥ मदीयं भाष्यं मचारं गन्तुं योग्यं न भवति तथाऽपि त्वत्सूत्रसंबन्धवशाद्धे विद्वन्भुवि प्रचारं गच्छतु स्वलाघवोक्तिरियम् ॥ ५७ ॥ संभाव्य वरमवश्यंभाविवरं संपूज्य वरं पदायेति वा ॥ ५८ ॥ इत्थं संभाष्यास्मिनृषिश्रेष्ठ वेदव्यासेऽन्तधनं गतेऽथानन्तरमन्तर्विवेकनिविरपि स श्रीशंकरो विव्यथे व्यथां माप । तत्र हेतुः । हृत्तापस्य हारी निरुपाधिकृपारसो येषां तत्तादृशां व्यासप्रभृतीनां विरहः कथमहो विषह्यः कथमपि विषह्यो न भवतीत्यर्थः । वसन्ततिलका वृत्तम् ॥ ५९ ॥ [ ऋषीति । ऋषीणामखिलमत्रद्रष्टणां वृषा ‘वासवो वृत्रहा वृषा' इत्यमरान्निखिलब्रह्मर्षिस्वामिनीत्यर्थः] ॥ ५९ ॥ तर्हि कथं तद्विरहं विषह्य दिग्विजये मनो दध इत्याकाङ्क्षायामाह । तदिति । गुरोर्वेदव्यासस्य नियोगादनुशासनात् । उपजातिवृत्तम् ॥ ६० ॥ [ दिगिति । विषयसप्तमीयम् । मनो दधे संकल्पं चकारेत्यन्वयः ] || ६० ॥ अथ दिग्विजये मनसः स्थापनानन्तरं कुमारिलेन भट्टेन भाष्यस्य वार्तिकमादरा त्कारयितुमेष मुनीन्द्रो वन्ध्यावदाचरन्तो निष्फला दरा गर्ता यस्मिस्तथाभूतो विन्ध्या चलो येन तेन वाचंयमेनागस्त्येन मुनिना चरितां दक्षिणां हरितं दिशं प्रतस्थे प्रस्थानं २७७ १ क. 'शं प्रति प्र"।