पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० श्रीमच्छंकरदिग्विजयः । सिद्धापगे पुरविरोधिजटोपरोध कुद्धा कुतः शतमदःसदृशान्विधत्से । बद्धा न किंनु भवितासि जटाभिरेषा मद्धा जडप्रकृतयो न विदन्ति भावि ॥ ६८ ॥ सन्मार्गवर्तनपराऽपि मुरापगे त्व मस्थीनि नित्यमशुचीनि किमाददासि ॥ आज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥ ६९ ॥ हे सिद्धापगे त्रिपुरविरोधिनः शिवस्य जटाभिरुपरोधेन क्रुद्धा शतममुष्य शिवस्य सदृशान्कुतः किमर्थं विधत्स एषां त्वया राचितानां शिवानां जटाभिः किंनु न बद्धा मवितासि किं बद्धा न भविष्यसि किंतु भविष्यस्येवैवमाक्षिप्य स्वयमेव प्रतिक्षिपति जडप्रकृतयो भविष्यं न जानन्ति । अत्र निन्दया स्तुतेरवगमाद्याजस्तुतिः । ‘उक्तिव्यौजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो ' इत्युक्तेः ॥ ६८ ॥ [ अद् इति । अमुनाशिवेन सदृशास्त्वयि स्नानादिना मरणो तरं हरसारूप्यलाभेन ततुल्यास्तानिति याबत् ] [ डलयोः सावण्र्यात्साक्षाज्जलपकृ तित्वं प्रछते स्फुटमेव ] ॥ ६८ ॥ [ सर्गः ७ ] हे सुरापगे सन्मार्गवर्तनपराऽपि त्वं नित्यमपवित्राण्यस्थीनि किमर्थमाददासीत्याक्षेप स्वयमेव समाधत्ते हे देवि तव हृदयमाज्ञातं तवाभिप्रायो बुद्धस्तव जले कृतं मज्जनं यैस्तेषां सजनानां प्रायः प्रसाधनकृते शिवरूपाणां तेषामलंकारार्थमाददासीत्यर्थः । डिद्रहिताकारपूर्वकत्वात्परस्मैपद्मयोगो न दोषावहः । ‘आाडो दोऽनास्यविहरणे' इति ङिद्वहणाज्ज्ञापकात् । तथाच लोकोपकाराय यथोक्ता तव प्रवृत्तिरित्यर्थः ॥ ६९ ॥ [ आ इति स्मृतौ निपातः । तदुक्तम् ।

  • ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।

एतमातं डिन्तं विद्याद्वाक्यस्मरणयोरङित्’ इति । एवं च किं स्मृतमित्यपेक्षायां तदाह ज्ञातमित्यादिना ] ॥ ६९ ॥