पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । उपात्तभिक्षः परितुष्टवित्तः प्रदर्शयामास स भाष्यमस्मै ॥ सर्वे निबन्धो द्वामलोऽपि लोके शिष्टेक्षितः संचरणं प्रयाति ॥ ८१ ॥ दृष्टा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शंकरं देशिकेन्द्रम् ॥ लोके त्वंल्पो मत्सरामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥ ८२ ॥ अष्टौ सहस्राणि विभान्ति विद्व न्सद्वार्तिकानां प्रथमेऽत्र भाष्ये । अहं यदि स्यामगृहीतदीक्षो धुवं विधास्ये सुनिबन्धमस्य ॥ ८३ ॥ भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन्समये दुरापम् ॥ पुरार्जितैः पुण्यचयैः कथंचि त्वमद्य मे दृष्टिपथं गतोऽभूः ॥ ८४ ॥ [सर्गः ७] उपात्ता भिक्षा येन परितुष्टचित्तः स श्रीशंकरोऽस्मै भट्टपादाय भाष्यं दर्शयामास । ननु किमर्थं दर्शयामासेत्यपेक्षायामाह । सर्व इति ।। ८१ ॥ तत्र हेतुमाह । हि यस्माल्लोकेऽल्पः क्षुद्रो मत्सर मशाली सर्वज्ञानः सर्वज्ञस्तु मात्सर्यादिलक्षणस्य क्षुद्रभावस्य पात्रं न भवतीत्यर्थः। शालिनी वृत्तम् ॥ ८२ ॥ [ननु भेदवादित्वात्कथमसौ हृष्ट इति मत्याचष्टे । लोक इति ] ॥ ८२ ॥ यदुवाच तदाह । अष्टाविति । हे विद्वन्नत्रास्मिन्ग्रन्थे प्रथमेऽध्योसभाष्ये सद्वा र्तिकानामष्टौ सहस्राणि भान्ति तर्हि कर्तव्यानीति चेत्तत्राऽऽह । अहं यद्यगृही तदीक्षः स्यां तस्य भाष्यस्य सुनिबन्धं विधास्ये । उपजातिवृत्तम् ॥ ८३ ॥ तिष्ठत्वेतद्भवद्दर्शनं त्वतिदुर्लभं मया लब्धमित्याह । भवादृशामिति । उपेन्द्रवत्रा वृत्तम् ॥ ८४ ॥ [ आस्मिन्समयेऽन्तकाले ] ॥ ८४ ॥ १ ख. ग. घ. स्वल्पो । २ ख. ग. घ. 'प्रासशा'। ३ ख. 'द्यमदृष्टि'।४ ख. ग. घ. 'प्रासशा'। ५ क. ध्याये भा'।