पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ श्रीमच्छंकरदिग्विजयः । संमय चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः ॥ व्यपातयशुचतरात्प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥ ९७ ॥ पतन्पतन्सौधतलान्यरोरुहं यदि प्रमाणं श्रुतयो भवन्ति । जीवेयमस्मिन्पतितोऽसमस्थले मजीवने तच्छतिमानतागतिः ॥ ९८ ॥ यदीह संदेहपद्मयोगा द्वद्याजेन शास्त्रश्रवणाञ्च हेतोः ।। ममोचदेशात्पततो व्यनङ्क्षी त्तैदेकचक्षुर्विधिकल्पना सा ॥ ९९ ॥ इत्थं संमध्य कृतनिश्चयास्ते ये चान्येऽहिंसनवादशीला विनिपातभीरुं विानेिपा ताद्भयशीलं प्रमत्तं मामुचतराच्छेष्टसैौधाद्यपातयन् ॥ ९७ ॥ [ आहिंसनेति च्छेदः । साभिप्रायमेवेदम् । वक्ष्यमाणहिंसाकारित्वात् । एवं चाहिंसनविषयकवादमात्रस्वभावा न तु तदाचरणप्रवीणा इत्यर्थः ] ॥ ९७ ॥ [ सर्गः ७] सैौधतलात्पतन्पतन्नरोरुहं पुनः पुनरारूढो यदि श्रुतयः प्रमाणं भवन्ति तत्तस्मि न्विषमस्थले पतितो जीवेयं यतः श्रुतिप्रामाण्यस्य मज्जीवनेनैव गतिः ॥ ९८ ॥ [यदि श्रुतयः प्रमाणं भवन्ति तहसमस्थले विषमस्थाने पतनेऽपि जीवेयमन्यथा नैव जीवे यम् । अतो मज्जीवने विषये तु मतिः साधनं श्रुतिमानता वेदप्रामाण्यमेवास्तीति बुवाणः सन्सौधतलान्येवारूरुहं पुनः पुनरारूढोऽभवमिति योजना । एतेनाक्षत एव बहुधा सौधमधिरूढोऽपि बौद्वैः सहस्रधा पातित इति ध्वन्यते ] ॥ ९८ ॥ इह वेदपामाण्ये यदीति संदेहमतिपादकपदस्य प्रयोगाद्वाजेन कपटेन शास्त्रस्य श्रवणाच हेतोरुचदेशात्पततो मम तैदेकं चक्षुव्र्यनङ्क्षीत् । किंच सा चक्षुरस्य नाशं गच्छाविति विधेर्देवस्य कल्पना ॥ ९९ ॥ [ उचेति । पततो ममैकमेव चक्षुर्यद्यस्मा द्धेतोठ्थैनङ्कक्षीद्विनष्टमभूत्तत्तस्मात्कारणात्सैकचक्षुर्मात्रनाशरूपा । विधीति । दैवकल्प नाऽस्तीत्यन्वयः ] ॥ ९९ ॥ १ एव घ. ‘न्पतनेऽस'। २ ७. घ. 'तदैक'। ३ ख. तदैकं ।