पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छैठकरदिग्विजयः । जाने तवाहं भगवन्मभावं संहृत्प भूतानि पुनर्यथावत् ॥ स्रधुं समर्थोऽसि तथाविधो मा मुज्जीवयेचेदिह किं विचित्रम् ॥ ११ ॥ नाभ्युत्सहे किंतु यतिक्षितीन्द्र संकल्पितं हातुमिदं त्रताम्रयम् ॥ तत्तारकं देशिकवर्यं मह्य मादिश्य तङ्कह्म कृतार्थयेथाः ॥ १२ ॥ अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा । दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥ १३ ॥ सदा वदन्योगपदं च सांप्रतं स विश्वरुपः प्रथितो महीतले ।। महागृही वैदिककर्मतत्परः प्रवृत्तिशात्रे निरतः मुंकर्मठः ।। १४ ॥ [ सर्गः ७ ] द्येकं वा पदम् । संजीवनाय त्वं शक्तोऽसि तथाऽप्यधुनाऽऽरब्धं वेदोक्तमेतद्दतं त्यज न्सतामविनिन्द्यो न भवितास्म्येतज्ज्ञातुं योग्योऽसीति ज्ञापनाय संबोधयति । हे बुधेति ॥ १० ॥ किंच समस्तभूतानि संहृत्य पुनर्यथावत्स्रष्टुं समर्थस्य तव नैतचित्रमित्याह । जान इति । इन्द्रवन्ना वृत्तम् ॥ ११ ॥ यद्यप्येवं तथाऽपि हे यतिराज संकल्पितामिदं व्रताअयं त्यतुं नाभ्युत्सहे यद्यह मवश्यमनुग्राह्यस्द हीँदं विधेहीत्याह । तत्तस्माद्धे देशिकवर्य तत्तारकं काश्यामुपदि श्यमानं ब्रह्मा मह्यमुपदिश्य कृतार्थयेथाः ॥ १२ ॥ अद्वैतमार्गप्रकाशनाय मां जेतुमयमागत इति विज्ञायाऽऽह । अयं चेति । दिशा मन्ते विश्रान्तं यशो यस्य ॥ १३ ॥ [ अयमद्वैतविद्यारूयः ] ॥ १३ ॥ सदा योगस्य कर्मयोगस्य पैदं मार्ग सांप्रतं न्याय्यं वदन्स विश्वरूपो भूतले प्रथितः । उपजातिवृत्तम् ॥ १४ ॥ ५ क. सुकर्मतः । २ क. ख. "दं सां'।