पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ॥ त्वं विश्वनाथ इव मे समये समागा स्तत्तारकं समुपदिश्य कृतार्थयेथाः ॥ १८ ॥ निव्यजकारुण्य मुहूर्तमात्र मत्र त्वया भाव्यमहं तु यावत् ॥ योगीन्द्रहृत्पङ्कजभाग्यमेत त्यजाम्यमून्पमवेक्षमाणः ॥ १९ ॥ इत्यूचिवांसमिमिद्धमुस्वप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।। तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गा च्छूीमण्डनस्य निलयं स इयेष गन्तुम् ॥ १२० ।। अथ गिरमुपसंहृत्याऽऽदराद्भट्टपादः शमधनपतिनाऽसौ बोधिताद्वैततत्त्वः ॥ प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ।। ७८४ ॥ तेनैव तावककृतिष्वपि वार्तिकानि कारय हे परिव्राट्श्रेष्ठतम । ‘भिक्षुः परिवाट्क पैन्दी' इत्यमरः । विलम्बं मा कुरु त्वं विश्धनाथ इव मे समये समागास्तत्तस्मात्तारकं सम्यगुपदिश्य कृतार्थयेथाः । वसन्ततिलका वृत्तम् ॥ १८ ॥ [ विलम्बं मा कुर्वित्या र्थिकम् ] ॥ १८ ॥ हे निव्यौजकारुण्य मुहूर्तमात्रं त्वयाऽत्र भवितव्यमहं तु यावद्योगीन्द्रहृत्कमल भाग्यमेतत्तव रूपमवेक्षमाणोऽसूस्त्यजामि । उपजातिवृत्तम् ॥ १९ ॥ इत्यूविवांसमिमं भट्टपादं संदीप्तसुखमकाशात्मैकं ब्रहोपदिश्य बहिरन्तरपास्तमोई कुर्वन्दयानिधिरसौ श्रशिंकरोऽभ्रमार्गादाकाशमागान्मण्डनस्य निलयं गन्तुमियेषेच्छति स्म । वसन्ततिलका वृत्तम् ॥ २० ॥ [ तरसा योगबलेन ] ॥ २० ॥ अथोपदेशानन्तरमादरादसौ भट्टपादो गिरमुपसंहृत्य शामधनानां यतिवराणामधीशेन बोचितमद्वैततत्त्वं यस्मै प्रशमिता ममता येनै यस्य वा स तथाभूतः संस्तस्य श्रीशंक रस्य प्रसादेन सद्यो दलिताखिलबन्धो वैष्णवं धाम प्रापेत्यर्थः । मालिनीवृत्तम् ॥२१॥ [ धाम स्वप्रकाशचिन्मात्रम्] ॥ २१ ॥ १ क. [ सर्गः ७ ] . घ. 'त्मकब्र'। २ क. ग. ‘न स ।