पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । प्रफुलुराजीववने विहारी तरङ्गरिङ्गत्कणशीकराद्रः ॥ रेवामरुत्कम्पितसालमाल श्रमापहृद्भाष्यकृतं सिषेवे ॥ ३ ॥ तस्मिन्स विश्रम्य कृताद्विकः स न्स्वस्वतिकारोहणशालिनीने ॥ गच्छन्नसौ मण्डनपण्डितैौको दासीस्तदीयाः स ददर्श मागे ॥ ४ ॥ कुत्राऽऽलयो मण्डनपण्डितस्ये त्येताः स पप्रच्छ जलाय गात्रीः ॥ ताश्चापि दृष्टाऽदुतशंकरं तं संतोषवत्यो ददुरुत्तरं स्म ॥ ५ ॥ ष्मतीं विलोक्य विस्मितं विस्मयं प्राप्त मानसं मनो यस्य सोऽसौ योगन्द्रिो मनोज्ञेऽ तिरम्ये पुरोपकण्डस्थवने पुरसमीपस्थवने पुराणवत्पुराणः पुराणपुरुषो विष्णुस्तद्वत्पु ष्करवर्तनीत अभाकाशमार्गादवातरदवतीर्ण । ‘योम पुष्करमम्बरम्’ ‘सराणः पद्धति पद्या वर्तन्येकपदीति च' इत्यमरः उपेन्द्रवज्रा वृत्तम् ॥२॥ [पुराणवदिति । पुराऽपि नवः पुराणो नित्यनूतनाकृतिर्विष्णुस्तद्वदित्यर्थ । सोऽपि भगवान्भार्गवरामरूपी कार्तवीर्यपराजयार्थे माहिष्मत्यामेव तन्नगयाँ योगैश्वर्यबलादाकाशमार्गादेवावतीर्णोऽ भूदिति पुराणादौ प्रसिद्धमेव । एतेन स्वविजयावश्यंभावो व्यज्यते ] ॥ २ ॥ तस्मिन्प्रफुलकमैलवने विहारी विहरणशीलस्तरङ्गेभ्यो रिङ्गन्तो निःस्रवन्तो ये कणशीकरा अतिसूक्ष्माम्बुकणाः ‘कणोऽतिसूक्ष्मे धान्यांशे' ‘शीकरं शाबले वातैहृता म्बुकणयोः पुमान्' इति मेदिनी । तैराद्रों रेवामरुत् । कम्पिताः सालानां वृक्षविशेषाणां मालाः पङ्कयो येन स श्रमापहारको भाष्यकारं सिषेवे सेवितवान् । उपजातिवृत्तम् ॥ ३ ॥ [ प्रफुछेति । एतेन सौगन्ध्यं गन्धवाहे ध्वन्यते । तरङ्गेति । एतेन शैत्यं सूचितम् ] ॥ ३ ॥ तस्मिन्वने स श्रीशंकरो विश्रम्य विश्रामं कृत्वा कृतमाक्षिकमा कर्तव्यं येन तथा भूतः सन्मध्याह्नकाले यत्र सूर्य अभायाति तत्खस्वस्तिकं सिद्धान्तशिरोमण्यादौ प्रसिद्धं तदारोहणशालिनीने सूर्ये सत्यसैौ मण्डनपण्डितस्यौको गृहं प्रति गच्छन्स तदीया मण्डनपण्डितस्य दासीमगें ददर्श । इन्द्रवज्रा वृत्तम् ॥ ४ ॥ दृष्टा च किं कृतवानित्यपेक्षायामाह । कुत्रेति । मण्डनपण्डितस्याऽऽलयो वास [ सर्गेः ८ ]

  • ख. ग. घ. 'मले व'। २ क."तसता'।