पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलित । तपोमहित्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ॥ यथाविधि श्राद्धविधौ निमन्य तत्पादपद्मान्पवनेजयन्तम् ॥ १२ ॥ तत्रान्तरिक्षादवतीर्य योगि वर्यः समागम्य यथार्हमेषः ॥ द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष भतिनन्दितोऽभूत ॥ १३ ॥ अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ॥ संन्यास्यसावित्यवगत्य सोऽभव त्प्रवृत्तिशात्रैकरतोऽपि कोपनः ॥ १४ ॥ तदाऽतिरुष्टस्य गृहाश्रमेशितु र्यतीश्वरस्यापि कुतूहलं भृतः ॥ क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५ ॥ २९ पुनस्तं विशिनष्टि । सत्यवत्यास्तनूजमात्मजं व्यासं जैमिनिना सह वर्तमानं तपोनि धानं तपोमाहात्म्येनैव श्राद्धविधौ यथाविधि निमय तयोव्र्यासजैमिन्योः पादकमला न्यवनेजयन्तं प्रक्षालयन्तम् । उपजातिवृत्तम् ॥ १२ ॥ एतादृशं मण्डनं दृष्टा यत्कृतवांस्तदाह । तत्र तस्मिन्मण्डनगृहेऽम्बरादाकाशाद्वतीर्य व्यासं जैमिनि चैष योगिश्रेष्ठो यथायोग्यं समागम्य ताभ्यां चोभाभ्यां सह यथा स्यात्तथाऽभिनन्दितोऽभूत् । इन्द्रवत्रा वृत्तम् ।। १३ ।। अथानन्तरं स मण्डन आकाशमार्गादवतीर्ण मुन्योव्यसजैमिन्योरन्तिके समीपे स्थितं ज्ञानमेव शिखोपवीतं चास्यास्तीति तं शिखोपवीतविवर्जितमिति यावत् । असौ संन्यासीत्यवगत्य बुद्ध्वा प्रवृत्तिशासैकरतोऽपि कोपनः कोपयुक्तोऽभवत् । अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि' इत्याद्विप्रवृत्तिशाखेण श्राद्धादिकर्मणि कोपस्य निषिद्धत्वात्तदभिरतत्वेन कोपायो ग्योऽपीत्यपिशब्दार्थः । उपजातिवृत्तम् ॥ १४ ॥ तदा तस्मिन्काले गृहस्थाश्रमस्येशितुरीधरस्य मण्डनस्यातिकुद्धस्य यतीधरस्य च