पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छठंकरदिग्विजयः । स चाब्रवीत्सौम्य विवादभिक्षा मिच्छन्भवत्संनिधिमागतोऽस्मि ॥ साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्वादरः प्राकृतभक्तभैक्ष्ये ॥ ३६ ॥ मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा । अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥ ३७ ॥ जगति संप्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम् ॥ त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्विति ॥ ३८ ॥ [ सर्गः ८ ] एवं भैक्ष्यकृते मण्डनेन निमश्रितो महर्षिः किमुक्तवानित्यत आह । स च महर्षिरब वीडे सौम्य प्रियदर्शन विवादभिक्षामिच्छन्भवत्संनिधिं तव समीपमागतोऽस्मि तस्मात्सा वादभिक्षाऽन्योन्यशिष्यत्वपणा मदेया प्राकृतान्नभैक्ष्ये तु ममाद्रो नास्ति ॥ ३६ ॥ [ हे सौम्य मियदर्शनेोति मण्डनं पति संबोधनम् । एतेन धेतकेतुं प्रत्युद्दालकेनेव त्वां प्रति ब्रह्मविद्यामुपदेष्टमेव मयाऽयमुपक्रमः कृत इति द्योत्यते ] ॥ ३६ ॥

  • वादवादांस्यजेत्तकन्न पक्ष कंचनाऽऽश्रयेतू

इति संन्यासिनस्तव निषिद्ध वादभिक्षां कथं याचस इति चेत्तत्राऽऽह । ममेति । श्रुतिशिरसां वेदान्तानां पैथो मार्गस्य विस्तृतिं विस्तारं विना मम किंचिदपि धुवमी प्सिर्तमजस्रमाक्षुमिष्टं न भवति तथाच स्वरूयात्याद्यर्थे वादाद्याश्रयणनिषेधपरमुदाहृत वाक्यं न तूक्तप्रयोजनवादाश्रयणनिषेधपरम् । एतादृशावादस्य लोकोपकारकत्वात् । पन्था भव एव तापो दुःखं संसारसंबन्ध्याध्यात्मिकाधिदैविकाधिभैौतिकलक्षणं दुःख मिति वा । तस्य हिमद्युतिश्चन्द्र औष्ण्यनिवृत्तिपूर्वकशैत्यजनकहिमद्युतिवन्निखिल दुःखनिवृतिपूर्वकपरमानन्दमाधिकरइत्यर्थः । मखेषु यज्ञेष्ववहितेन सावधानेन भव ताऽवधीरितस्तिरस्कृतः । हृतविलम्बितं वृत्तम् ॥ ३७ ॥ अतो यो वेदान्तमागों भवदादिभिरवधीरितस्तमहं समस्तविवादिनं सम्यगभिभूप तिरस्कृत्य जगति प्रथयामि सर्वोत्कृष्टत्वेन प्रकटीकरोमि । तस्मात्त्वमपि मे मतं वेदान्त १ ग. 'वीत्सोम्य । २ ग. सेोम्य । १ क. पन्था मार्गस्तस्य । ४ ग. "तमा ।