पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० श्रीमच्छंकरदिग्विजयः । [ सर्गः ८ ] तथेति सूक्ते स्मितशंकरेण भविष्यते वादकथा च एव । तत्साक्षिभावं व्रजतं मुनीन्द्रा वित्यर्थयादरिजैमिनी सः ॥ ५० ॥ विधाय भार्या विदुषीं सदस्यां वधीयतां वादकथा सुधीन्द्र ॥ इत्थं सरस्वत्यवतारतास्रौ तद्धर्मपत्न्यास्तमभाषिाताम् ॥ ५१ ॥ अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीषुः ॥ आनर्च दैवोपगतान्मुनीन्द्रा नमीनिव त्रीन्मुनिशेखरांस्तान् ॥ ५२ ॥ वादकथा ध एव भविष्यत इति तथैव स्मितयुक्तेन शंकरेण सुत्ते सति हे मुनीन्द्रौ तस्य विवादस्य साक्षिभावं व्रजतमिति व्यासजैमिनी स मण्डनः प्रार्थ यत् ॥ ५० ॥ तस्य मण्डनस्य धर्मपत्न्याः सरस्वत्यवतारताज्ञावियं सरस्वत्यवतारभूतेत्यभिज्ञौ हे सुधीन्द्र विदुषीं भार्या सदस्यां विधाय वादकथा विधीयतामित्यनेन प्रकारेण तं मण्ड नमभाषिातामुक्तवन्तौ ॥ ५१ ॥ मुनिम्यां व्यासजैमिनिभ्याम् ॥५२ ॥[ मुनिशेखरानिति । पौनरुक्त्यपरिहारा र्थमन्निविशेषणमेव कर्तव्यम् । मुनीनां मननकर्मनिष्ठानां शेखरा इव पूज्यत्वेन शिरोधार्यास्तानित्यर्थः । तथा मुनीन्द्रपदप्रतिपादितव्यासजैमिनिश्रीशंकराचार्याणा मपि विशेषणं श्लेषालंकारादिसिद्धयर्थे मुनिशेखरानिति पौनरुक्त्यमशामकव्युत्पत्य न्तरेण कार्यम् । तद्यथा । मुनयोऽद्वैतब्रह्ममात्रमननशीलाः शेखरा इव शिरोधार्यत्वेन चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिरिति ब्रह्मसूत्रचरमचरणे संलिखितसिद्धा न्तसंमत्यादिना पूज्या एषाम् । एवं मुनीनां मननशीलपणतमुमुक्षुणां प्रणामकाले शेख रास्तदधिकरणीभूतशिरांसि येषु तथा मुनयोऽत एव शेखराः शिरोधायश्चेति । एवं मुनीन्द्रानित्यमिविशेषणमपि मुनीनामिन्द्राः श्रुतिमननशीलानां कर्मकाले पूज्यास्तान् । तद्वन्मुनयः श्रुतिमननशीला एवेन्द्रा वासवाः कल्पान्तरे येभ्यस्ते तान् । एवं मुनयः श्रुतिमननशीला एवेन्द्रा इन्द्रशब्दितपरमात्मरूपा येभ्यस्ते तान् । एवमन्यदपि यथोक्तदिशा व्युत्पत्तिजातमूह्यमविमत्सरैः सूरािभीरत्यलं पलवनेनेत्युपरम्यत इति दिक् ] ॥ ५२ ॥