पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ श्रीमच्छकरदिग्विजयः । [ सगैः ८ ] वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ॥ शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां कर्यभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाझेः ॥६४॥ वादे कृतेऽस्मिन्यदि मे जपान्य स्त्वयोदितात्स्याद्विपरीतभावः ॥ येयं त्वयाऽभूद्भदिता मसाक्ष्ये जानाति चेत्सा भविता वधूमें ॥ ६५ ॥ जेतुः पराजित इहाऽऽश्रममाददीते त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।। अम्बामुदाधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥ ६६ ॥ मण्डनकृतां प्रतिज्ञामुदाहरति । वेदान्ता इति । चितिवपुषि चित्स्वरूपे पदे पर मात्मनि वेदान्ताः प्रमाणं न भवन्ति तत्र चिद्भपे सिद्धे वस्तुनि कार्यानन्विते संगते शाक्तेरयोगौद्वेदान्तेभ्यः पूर्वोभागः पदचयेन पदसमुदायात्मकेन वाक्येन गमिते बोधि तेऽशेषे कार्यवस्तुनि प्रमाणमभ्युन्नतानां प्रसिद्धानां घटमानयेत्यादिकानां शब्दानां कार्यमात्रं प्रति शक्तिः समधिगता कर्मभ्यश्च मुक्तिरिष्टाऽभिमत्रा तत्कर्मेहास्मिलोके तनुभृतां देहभृतां जीवानामायुषो जीवनस्य समाधेः समाक्षिपर्यन्तमिष्टं स्यात् * थाव जीवमभिहोत्रं जुहुयात्' इति वचनातू । समाप्तिरितिपाठे तु ततस्मादिहास्मिन्कर्मणि तनुभृवामायुषः समाप्तिः स्यादिति व्याख्येयम् । स्रग्धरा वृत्तम् ॥ ६४ ॥ [ तदिह तनुभृतामिति मध्यमणिन्यायेनोभयत्राप्यन्वेति । कर्मभ्य इत्यपि काकाक्षिवदायुष इत्य त्रापि संघध्यते ] ॥ ६४ ॥ पणं दर्शयति । अस्मिन्वादे कृते सति यदि मे जयादन्यः पराजयः स्यात्तर्हि त्वयेोदितात्त्वदुक्ताद्विपरीतभावः शुछवमनं गृहाश्रमं विहाय कषायवस्वपरिधानं स्याधे यमुभयभारची मसाक्ष्ये स्वया कैल्पिताऽभूत्सैवेथं वधूमें जानाति चेत्यसाक्ष्ये भविष्यति। उपजातिवृत्तम् ॥ ६५ ॥ इहास्यां सभायां वादे वा पराजितो जेतुराश्रममङ्गीकुर्यादिति कृतपणौ यतिमण्डना बुदारबुद्धिमम्बां सरस्वतीं साक्ष्येऽभिषिच्याथो भनन्तरं जये दत्ता स्थापिता दृष्टियभ्यां तौ जल्पं विजिगीषुकथां वितेनतुर्विस्तारितवन्तावित्यर्थः । वसन्ततिलका वृत्तम् ॥६६॥ १ ग. उंवामु। २ ख. घ. 'गात्संगतिप्रहाभावाद्वे'। ३ क. ख. कथिता'। ४ ख. 'यं मम वधूः भरती जा'। ५ क. ‘में प्र'। ६ क. 'क्ष्ये भविता भ'। ७ ग. 'द्धिमुंवां स'।