पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३१५ आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ । एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्पधित सोभयभारतीयम् ॥ ६७ ॥ माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतरनिश्चयः स्यात् ॥ उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पि चरितुं गृहिमस्करिभ्याम् ॥ ६८ ॥ अन्योन्यसंजयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्ठाम् ॥ ब्रह्मादयः सुरवरा अपि वाहनस्था श्रोतुं तदीयसदनं स्थितवन्त ऊध्र्वम् ॥ ६९ ॥ ततस्तयोरास महान्विवाद सदस्यविश्राणितसाधुवादः । स्वपक्षसाक्षीकृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥ ७० ।। सर्ववेदौ सर्वज्ञौ तौ समं मिथो वादं वितनुतां विस्तारितवन्तावेवं विजेतुमनसोरुप विष्टयोर्यतिमण्डनयोगैले तां प्रसिद्धां पुष्पनिर्मितामेकैकां माळां सेयमुभयभारती न्याधित स्थापितवती ॥ ६७ ॥ [ अभावश्यकं स्वस्वनित्यकृत्यं स्नानसंध्याध्यानड्वनादि कम्] ।। ६७ ॥ वयोगैले मालां निधाय यदुक्तवती तदाह । यदा यस्मिन्काले यस्य गले मालाम लिनभावमुपैति प्रामुयात्तस्य तदा विजयेतरस्य पराजयस्य निश्चयः स्यादित्युक्त्वा गृहं गतवती यतो गृहकर्मसक्ताऽपि च भिक्षा चाशनं भोजनं च भिक्षाशाने चरितुं गृहिणे गृहस्थार्थमशनं मस्करिणे यत्यर्थं भिक्षां निर्मातुमित्यर्थः ॥ ६८ ॥ साक्ष्ये स्थापितायाः कृत्यमुक्त्वा वादिकृत्यमाह । तौ यतिमण्डनावन्योन्यसंजया त्मके फले विहिताद्रौ वादं जल्पात्मकमातनिष्टां विस्तारितवन्तौ तस्मिन्काले ब्रह्माद् योऽपि सुरश्रेष्ठा वाहनस्थाः सन्तो विवादस्य परिनिर्णयं श्रोतुं तदीयं सदनं तस्य भवनमूध्र्वमन्तरिक्षे स्थितवन्तः ॥ ६९ ॥ [ तदीयेति । मण्डनमिश्रगृहं प्रति । ऊध्र्व स्थितवन्त आसन्निति योजना ] ॥ ६९ ॥ ततो वादविस्तारानन्तरं ब्रह्मादिस्थित्यनन्तरं च तयोर्यतिमण्डनयोर्महान्विवाद १ ख. 'दप'। २ क. ख. 'नं भ।