पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य । चिक्षेप तं क्षोभितसर्वपक्ष विद्वत्समक्षाप्रतिभातकंक्ष्यम् ॥ ७४ ॥ ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्य: ॥ जगाद वेदान्तवचः प्रसिद्ध मद्वैतसिद्धान्तमपाकरिष्णुः ॥ ७५ ॥ भो भो यतिक्ष्माधिपते भवद्रि जीवेशयोर्वास्तवमैकरुप्यम् । विशुद्धमङ्गीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥ ७६ ॥ ३१७० ततो बहुकालपर्यन्तं वादप्रवृत्यनन्तरं यातिक्ष्माभृद्यतिराजस्तस्य विचक्षणस्य मण्ड नस्य क्षोदं विचारात्मकं पेषणं क्षमते सहत इति क्षोदक्षमं दाक्ष्यं कुशलतामवक्ष्य क्षोभितः सर्वे पक्षा येन तथाभूतमपि विदुष अाचार्यस्य समक्षे संमुखेऽप्रतिभाता कैक्ष्याः कोट्यो यैस्यैतादृशं तं चिक्षेप यद्वक्तव्यं तदुच्यतामिति पुनः प्रेरितवान् । उपजातिवृत्तम् ॥ ७४ ॥ [ विद्वदिति । विदुषां विवादकैौतुकावलोकनार्थमागतानां पण्डितानां समक्ष पत्यक्षमेव यथा स्यात्तथाऽप्रतिभाता कक्षायै 'स्पवपदे च दोर्मुले कक्षा वीरुतृणेषु चव इति मेदिन्याः स्पर्धास्थानायाह कोटेिर्यस्य स तथा तमेतादृशं सन्तमिति यावत्] | ७४ ।। तदनन्तरं मण्डनो यत्कृतवांस्तदाह । ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहनोऽपि सभ्यमुख्यः स मण्डनो वेदान्तवचोभिः प्रसिद्धमद्वैतासिद्धान्तमपाकरिष्णुरुवाच । उप जातवत्तम् ॥ ७५ ॥ यदुवाच तदुदाहरति । भो भो इति । संभ्रमे वीप्सा । यतिक्ष्माधिपते यतिराज जीवेश्वरयोर्वास्तवमैकरूप्यं विशुद्धं यद्भवद्भिरङ्गीक्रियते तत्र प्रमाणं वयं न पतीमो न जानीमस्तत्र प्रमाणं नास्तीत्यर्थः । अयं भावः । न हि श्रुतिमस्तकमुक्तार्थे प्रमाणं भवितुमर्हति शुद्धबुद्धोदासीनतयोपेक्षणैीयं ब्रह्मा भूतमभिदवतस्तस्यापुरुषार्थोपदेशि नोऽपयोजनत्वप्रसङ्गात् । किंच यथा लैोकिकवाक्यानि प्रमाणान्तरावगतार्थबोधकानि १ क "कक्षम् । २ क. कक्षाः । ३ क. यस्य स ता । ४ ग. "रं स म'। ५ ग. घ. 'णीयत्र