पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्ग:८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३१९ वेदावसानेषु हि तत्वमादि चचांसि जप्तान्यघमर्षणानि । हुंफण्मुस्वानीव वचांसि योगि नैषां विवक्षाऽस्ति कुहस्विदर्थे ॥ ७८ ॥ अर्थाप्रतीतौ किल हुंफडादे र्जपोपयोगित्वमभाणि विज्ञेः ।। अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥ ७९ ॥ आपाततस्तत्वमसीतिवाक्या द्यतीश जीवेश्वरयोरभेदः ।। प्रतीयतेऽथापि मस्वादिकर्तृ प्रशंसया स्याद्विधिशेष एव ॥ ८० ॥ ननु भूतार्थतया वेदान्तानामपौरुषेयत्वासिद्धया वेदान्ताः पौरुषेया वाक्यत्वाद्भार तादिवदित्यनुमानस्यापत्यूहमुत्पत्तेः । पौरुषेयत्वस्य दुर्वरत्वाद्वेदान्तवचसां कस्मिश्चि दर्थे विवक्षा नास्ति किंतु जप्तानि तान्यघमर्षणानीत्यभ्युपगन्तव्यमित्याशयवान्मण्डन अाह । वेदावसानेषु वेदान्तेषु हि यस्माडुफण्मुखानि वचनानि यथा जप्तान्यघमर्ष णानि तथा तत्त्वमस्यादिवचांसि जप्तानि पापनिवर्तकानि तस्माद्वे योगिन्नेषां तत्त्वम स्यादिवचसां कुहस्चिदर्थे कस्मिश्चिदर्थे विवक्षा नास्तीत्यर्थः ॥ ७८ ॥ एतदृषयति भगवान् । अर्थस्यापतीतावप्रतिभाने किल प्रसिद्धं हुंफडादेर्जपोपयो गित्वं विशैरभाणि भाषितम् । अत्र तत्त्वमस्यादिवचनेषु स्पष्टं यथा स्यात्तथाऽर्थस्य मतीतौ सत्यामेषां जपाथैतैव कथं भवेत्केनापि प्रकारेण न भवतीत्यर्थः । प्राज्ञस्त्वं दृष्टान्तवैषम्यं कथं न जानासीति सूचयन्संबोधयति । हे प्राज्ञेति । आख्यानकी वृत्तम् ॥ ७९ ॥ उत्तं पक्षे विहाय पक्षान्तरालम्बनाय मण्डन आह । आपातत इति । हे यतीश यद्यपि जीवेशयोरभेदस्तत्त्वमसीतिवाक्यादापातत: प्रतीयते तथाऽपि मखादिकतृप्रशं सयेशाभिन्नोऽयं मखादिकर्तेतिस्तुत्या तयोरभेदो विषेः शेष एवेत्यर्थः । अयं भावः । वेदान्तवचसां तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वमभ्युपे यम् । कार्यस्यापूर्वस्य मानान्तरागोचरतयाऽत्यन्ताननुभूतपूर्वस्य तत्वेन समारोपेण वा पुरुषबुद्धावनारोहारौंदर्थानां वेदान्तानां कार्यपरत्वाङ्गीकारस्याऽऽवश्यकत्वात् ।

  • यज्ञादिपराथौनाम्