पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० क्रत्वङ्गयूपादिकमर्यमादि देवात्मना वाक्यगणः प्रशंसन् ॥ शेषः क्रियाकाण्डगतो यदि स्या त्कांडान्तरस्थोऽपि भवेत्कथं सः ॥ ८१ ॥ श्रीमच्छंकरदिग्विजयः । तथाच जैमिनिनाऽपि 'आम्रायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इतिसूत्रेणाक्रि यार्थानामर्थवादानामानर्थक्यं पृर्वपक्षं कृत्वा ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थे नविधीनां स्युः’ इत्यक्रियार्थानामानर्थक्थं पूर्वपक्षोक्तमङ्गीकृत्यैवार्थवादानां विध्यकवाक्यतया प्रामाण्यं प्रतिपादितम् । नचाक्रियार्थत्वेऽपि वेदान्तानां ब्रह्मरुपविविपरत्वस्वीकारण न सिद्धान्तसूत्रविरोध इति वाच्यम् । सर्वेषां विधीनामनागतोत्पाद्यभावनाविषयत्वेन परिनिष्ठितवस्तुस्वरूपविधेरसंभवादिति । उपजातिवृत्तम् ॥ ८० ॥ [पातं तत्तद्विषयका ज्ञानविनाशां मर्यादीकृत्येत्यापातं तस्मात्तत्तद्विषयकाज्ञानविनाशादर्वागेवेत्यर्थः] ।॥८०॥ वेदान्तानां कार्यपरत्वस्वीकारेणापौरुषेयत्वं प्रतिपादयता त्वया वक्तव्यं किं तत्कार्ये यदशाक्यं पुरुषेण ज्ञातुमपूर्वमिति चेन्मानान्तरानवगते संगतिग्रहायोगालिडादीनामबो धकत्वप्रसङ्गः । स्वर्गकामपदसमभिव्याहारसंख्याँकतर्कानुगृहीतवदादेव क्रियाविलक्षणापूर्वे लिङादीनां संगतिग्रहाद्वोधकत्वमिति चेचैत्यवन्दनादिवाक्येष्वपि स्वर्गकाम इत्यादि पदसंबन्धादपूर्वकार्यत्वप्रसङ्गेन तेषामप्यशक्यरचनतयाऽपौरुषेयत्वप्रसङ्गः । स्पष्टेन पौरुषेयत्वेन तेषामपौरुषेयत्वप्रतिषेध इति चेद्वाक्यत्वादिलिङ्गेन वेदानामपि पौरुषेय [ सर्गः ८ ] ४ ख. ग. 'व स्तोम्ये'। वेदान्तानां कार्यार्थत्वपक्षे तेषां पौरुषेयत्वानुमानं कर्तृस्मरणोपाधिना निरस्यते तथा तेषां सिद्धार्थत्वपक्षेऽपि तन्निरसनस्य समानत्वात्तेषां कार्यार्थत्वकल्पनमप्रयोजकम् । तस्माद्वेदान्तानामपौरुषेयत्वसंपादनाय क्रियार्थेवं नैवाभ्युपेयम् । ‘सदेवं सोम्यदमय आसीत्'।'एकमेवाद्वितीयम्'।' आत्मा वा इदमेक एवाग्र आसीत्'।'तदेतद्रह्मापूर्वमन परमनन्तरमबाह्यम्'।'अयमात्मा ब्रह्मा सर्वानुभूः'।'ब#वेदममृतं पुरस्तात्' इत्यादिवाक्ये पृपक्रमोपसंहारादिषाधितात्पर्यलिङ्गेन ब्रह्मात्मभावे प्रतिपादकत्वेन समनुगतेषु स्थितानां पदानां प्रत्यगभिन्नब्रह्मास्वरूपविषये निश्चिते समन्वयेऽ वगम्यमानेऽर्थान्तरकल्पनायाः श्रुतहान्यश्रुतकल्पनाग्रस्ताया अयुक्तत्वात् । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये दित्यादिक्रियाकारकफलनिराकरणश्रतेः । प्रकरणान्तरपठितवेदान्तवाक्यानां कपि ३शंसया विधिशेषत्वासंभवाचेत्याशायवान्भगवानाह । क्रत्वड़यूपादिकांमांत । ‘आदित्यो यूपः’ ‘यजमानः प्रस्तरः ? इत्यादिवाक्यगणः क्रत्वङ्ग-युपप्रस्तरादिकमादित्ययजमा