पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्तु जीवे परमात्मदृष्टि विधायकः कर्मसमृद्धयेऽर्हन् ॥ अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोन्नार्कनभस्वदादौ ।। ८२ ।। संश्रूयतेऽन्यत्र यथा लिडादि र्विधायको ब्रह्मविभावनाय ॥ तथा विधेरश्रवणान्मनीषि न्संजाघटीत्यत्र कथं विधानम् ॥ ८३ ॥ यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे ॥ प्रकल्प्यते तद्वदिहापि मुक्ति फलश्रुतेः कल्पयितुं स युक्तः ॥ ८४ ॥ ३२१ नाद्यात्मना पशंसन्क्रियाकाण्डगतत्वाच्छेषो यदि स्यात्तर्हि भवतु नाम तथाऽपि काण्डा न्तरे ज्ञानकाण्डे स्थितः ‘तत्त्वमसि'अहं ब्रह्मास्मि' इत्यादिवाक्यगणो विधिशेषः कथं भवेत् । इन्द्रवज्रा वृत्तम् ॥ ८१ ॥ [क्रियेति । कर्मकाण्डगतः । शेषो विध्यङ्गीभूतः]॥८१॥ एवमुक्तो मण्डन आह । हेऽर्हन्यद्येवं तर्हि तत्त्वमस्यादिवाक्यगणो जीवे परमात्म दृष्टिविधायकोऽस्तु किमर्थमिति चेत्तत्राऽऽह । कर्मसमृद्धये तत्र दृष्टान्तो यथा 'मनो ब्रहोत्युपासीत'।'अन्नमुपास्स्व'।'आदित्यो बहोत्यादेशः' । ‘वायुर्वाव संवर्ग:' । ‘माणो वाव संवर्गः' । इत्यादिवाक्यगणः कर्मणां सम्यगभिवृद्धयेऽब्रह्मणि मन आदौ ब्रह्मवियं विधत्ते तद्वत् । तथाचाऽऽरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न तस्य ब्रह्मा त्मत्वे प्रमाणमिति भावः । भारूयानकी वृत्तम् ॥८२॥ [ कर्मत्यादि । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति श्रुतेरमिहोत्रादिक्रियाजन्यपु ण्यापूर्वस्य वीर्थवत्तरत्वसंपत्यर्थमिति यावत् ] ॥ ८२ ॥ एतदूषयति भगवान् । अन्यत्र 'मनो ब्रह्मत्युपासीत' इत्यादिवाक्ये यथा ब्रह्मविभाव नाय विधायको लिङदिः श्रूयते तथाऽत्र तत्वमस्यादिवाक्ये लिङादिरूपस्य विषे रश्रवणाद्विधानं कथं संजाघटीति केन प्रकारेण घटते न केनापत्थिर्थः । मनीषी सन्क थमेवं भाषस इति संबोधनाशयः । तथाच विध्यभावेनाऽऽरोपित ब्रह्मभावस्य जीवस्यो पास्तिपरत्वं वेदान्तानां न संभवतीति तस्य ब्रह्मात्मत्व एव वेदान्ताः प्रमाणमिति भावः । उपजातिवृत्तम् ॥ ८३ ॥ ननु सन्तु वेदान्ता ब्रह्मात्मत्वे प्रमाणं परं तु ज्ञानविधिद्वारा तत्र विवेः कल्पयितुं शक्यत्वादिति मन्वानो मण्डन आह । यद्वत्प्रतिष्ठाफलदर्शनेन हे यतीनां मध्ये श्रेष्ठ