पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सगः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मा भूदिदं तत्त्वमसीति वाक्य मुपासनापर्यवसायि कामम् ।। किंत्वस्य जीवस्य परेण साम्य प्रत्यायकं सत्तम बोभवीतु ॥ ८६ ॥ न युक्तः स्वर्गादिवन्मोक्षस्यानित्यत्वसातिशयत्वयोरनिष्टयोरापत्तेः । ननु ज्ञानस्यापि मानसक्रियात्वाद्भवन्मतेऽपि विमुक्तरनित्यत्वं कुतो न स्यादित्याशङ्कय ज्ञानस्य मान सत्वेऽपि यथाभूतवस्तुविषयप्रमाणजन्यत्वेन कर्तमकर्तुमन्यथा वा कर्तुमशक्यत्वात्केव लवस्तुतश्रत्वेन चोदनातश्रत्वाभावात्पुरुषतश्रत्वशून्यत्वाचास्मन्मते नोक्तदोष इत्याशा येनाऽऽह । उपासनेति । यथा ‘यस्यै देवतायै हविर्तृहीतं स्यात्तां ध्यायेद्वषट्टरिष्य न्' । ‘संध्यां मनसा ध्यायेत्' इत्येवमादिषु ध्यानं चिन्तनं मानसं पुरुषतत्रत्वात्कर्तुमक र्तुमन्यथा वा कर्तु शक्यं तथा मनसः क्रियोपासनैव कर्तुमकर्तुमन्यथा वा कर्तुमह न तु ज्ञानं तथाच तज्जन्यविमुत्केरनित्यत्वं स्पष्टमेवेत्यर्थः । तस्मात्ताद्वषये लिडाद्य श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्तो विाधच्छायारूपत्वात्स्वाभाविकप्रवृत्तिवेि षयविमुखीकरणार्थाः । अन्यथा क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' । अभयं वै जनक प्राप्तोऽसि'तैदात्मानमेवावेदहं ब्रह्मास्मि' इत्याद्याः श्रुतयो ब्रह्मवि द्यानन्तरं मोक्ष प्रदर्शयन्त्यो मोक्षस्य ज्ञानजन्यापूर्वजन्यत्वं वारयन्त्यो नोपपद्येरन् ब्रह्मावगतौ सत्यां सर्वकर्तव्यताहानेः कृतकृत्यतायाश्चास्माकमलंकारत्वात् । मननादि सहकृतेन श्रवणेन ब्र हास्वरूपसाक्षात्कारे संसारित्वनिवृत्तेः श्रुतिस्मृत्यनुभवसिद्धत्वाद्वित शासनेनैतैत्तत्प्रतिपादकस्य मुख्यशास्त्रत्वाच न कोऽपि दोष इति ॥ ८५ ॥ [ अथ तुष्यतु दुर्जन इति न्यायेन भगवान्भाष्यकृत्प्रोक्तविधिकल्पनमङ्गीकृत्यापि भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन दूषयति । तर्हति ] ॥ ८५ ॥ एवमुक्तो मण्डनस्तत्वमस्यादिवाक्यस्यापासनापथयवसानाभावमङ्गट्कृत्य प्रकारान्तरे णाऽऽक्षिपति । इदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि यथेष्टं मा भूत्तथाऽप्यैक्य प्रतिपादकं नास्ति किंत्वस्य जीवस्य परमेश्वरेण सादृश्यस्य प्रतिपाद्कं ह सत्तम बोभ वीतु भवतु ॥ ८६ ॥ [ अथ मण्डनमिश्रस्तदा 'विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्याथर्वणीयमुण्डकोपनिषच्छूतेरस्य जीवस्य ब्रह्मणा सह सादृश्यबोधकमेवे दमितेि पुनः शङ्कते । मा भूदिति ] ॥ ८६ ॥ ३२३ १ ख. ग. घ. 'योरा'। २ ग. ', तद्वाऽऽन्मा '। ३ ख. 'तत्प्र '। ४ ख. '२यप्र '।