पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३२९ हन्तैवमस्तीति तदा प्रयोग स्यात्वन्मते तत्वमसीति न स्यात् । तदैक्षतेत्यत्र जडत्वशङ्का व्यावर्तनाचात्र पुनर्न चोद्यम् ॥ ९१ ॥ नन्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ॥ न युज्यते तज्जपमात्रयोगि स्वाध्यायविध्याश्रितमभ्युपेयम् ॥ ९२ ॥ अक्षेण चेद्वेदमितिस्तदा स्या दभेदवादिश्रुतिवाक्यबाधः ।। असंनिकर्षान्न भवेद्धि भेद प्रमैव तेनास्य कुतो विरोधः ॥ ९३ ॥ त्वेन जीवसाम्यमावेद्यताम् । तथाच चितश्चेतनाजगत उत्थितत्वात्परं: सांरूयादिभि रुदितस्य पधानपरमाण्वादेर्निरासोऽपि सिध्यतीत्यर्थः ॥९०॥ [अस्य प्रकृतत्वेन बुद्धि स्थस्य परमेश्वरस्य । अभावेद्यतां ज्ञाप्यताम् । तत्त्वमस्यादिमहावाक्यैरिति शेषः] ॥९०॥ एवमुक्तो भगवानाह । हन्त हे मण्डनैवं चेत्तदा त्वन्मते तज्जगत्कारणं त्वं त्वत्स दृशमस्तीति पयोगः स्यात्तत्वमसीति न स्यात् । जडत्वशङ्कायास्तु 'तदैक्षत बहु स्यां प्रजायेय' इतक्षणश्रवणात्तत्त्वमसीति जगत्कारणस्य चेतनाभेदप्रतिपादनेन च व्यावर्तना त्पुनरत्र चोद्याभावात्पधानादेर्निरासायैवं न वाच्यमित्यर्थः ।। ९१ ॥ एवं सर्वतः प्रतिरुद्धो मण्डन इममपि पक्षमुपेक्ष्य पुनस्तत्त्वमस्यादिवाक्यस्य जपो पयोगित्वालम्बनाय परपक्षे प्रत्यक्षविरोधमापादयति । नन्वेवं साम्यापत्यायकत्वेऽप्य स्योक्तवाक्यस्यैक्यपरत्वं माहमीश्वर इति प्रत्यक्षात्मिकाया ज्येष्ठपमायाः प्रकोपात्र युज्यते ततः ‘स्वाध्यायोऽध्येतव्यः' इति विविनाऽऽश्रितंमुक्तवाक्यं जपोपयोग्यमभ्युपे यमिति ॥ ९२ ॥ [ पूर्वशब्दितादिग्रहणादनुमानादेः संग्रहः । तद्यथा । अहमनीश्वरः । जगन्नियन्तृत्वाभावाहुःखित्वात्किचिज्ज्ञत्वाच्च । आचे घटवत् । अन्त्ययार्यतिरेक ईश्वरवदित्याद्यनुमानम् । एवं यद्यहमीश्वरः स्यां तर्हि जगज्जन्मादौ शाक्तः स्याम् । यतो न शक्तस्तस्मान्नेश्वर इत्यर्थापतिरपि । ऐक्येति । जीवेश्धराभेदबोधकत्वमिति यावत् ] ॥ ९२ ॥ एतदूषयति भगवान् । क्षेणेन्द्रियेण चेद्वेदमितिभेदमा याद स्यात्तदाऽभेदवाद श्रुतिवाक्यस्य बाधः स्यात् । अक्षस्य भेदेनासंनिकषद्वेदममैव न हि भवेत्तेन कारणे १ स्र. ज्यतेऽतो जप'। २ क. जीवन सा'। ३ ख. घ. 'तमधीतमु।