पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । मनोऽक्षमित्यभ्युपगम्य भेदा सङ्गित्वमुक्तं परमार्थतस्तु । साहाय्यकृलोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥ ९८ ॥ भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ॥ तया विरोधात्परमात्मजीवा भेदं कथं बोधयितुं प्रमाणम् ॥ ९९ ॥ प्रत्यक्षमात्मेश्वरयोरविद्या मायायुजोद्योतयति प्रभेदम् ॥ श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥ १०० ॥ [ सर्गः ८ ] किंच मन इन्द्रियमित्यङ्गीकृत्य भेदेनास्यासङ्गित्वमुक्तं वस्तुतस्तु मनो नेन्द्रियं चक्षु रादिसहकारित्वात् । दीपवत् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावधारणादेवेत्युक्तम् । * मनःषष्टानीन्द्रियाणि ' इति वचनं तु न मनस इन्द्रियत्वे प्रमाणम् । 'यजमानपञ्चमा इडां भक्षयन्ति' । ‘वेदानध्यापयामास महाभारतपश्वमान्’ इत्यादिवदनेिन्द्रियेणापि मनसा षट्त्वसं ख्यापूर्णत्वसंभवान् । 'इन्द्रियाणां मनश्चास्मि’ इति वचनमपि ‘नक्षत्राणामहं शशी' इतिवन्न मनस इन्द्रयत्वे प्रमाणमिति । उपजातिवृत्तम् ॥ ९८ ॥ एवं निरुद्धो मण्डन आह । भेदममेन्द्रियजा न चेत्तर्हि साक्षिस्वरूपैवास्तु तथाऽपि हे योगिस्तया साक्षिस्वरुपया भेदप्रमया विरोधात्परमात्मजीवयोरभेदं बोधयितुं कथं प्रमाणम् । तत्त्वमस्यादिवाक्यमिति शेषः ।॥ ९९ ॥ मण्डनोक्तमङ्गीकृत्य विषयभेदाद्विरोधं परिहरति भगवान्। साक्षिस्वरूपं प्रत्यक्ष जीवा त्मपरमात्मनोरविद्यामायायुक्तयोः प्रभेदं द्योतयति । श्रुतिस्तु तद्विनिर्मुक्तयोः शुद्धयो स्तयोजवेश्वरयोरभेदं द्योतयतीत्येवं श्रुतिप्रत्यक्षयोर्मिन्नाश्रयत्वान्न विरोधः ॥ १०० ॥ [ प्रभेदं द्योतयति नाहमीश्धर इत्यनुभवेन सूचयतीति संबन्धः 1।। १०० ॥