पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३३१ योगिन्ननौपाधिकभेदवत्वं विवक्षितं साध्यमिह त्वदिष्टः । औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥ ६ ॥ घटेशभेदेऽप्युपधिह्मविद्या तवानुमानेषु जडत्वमेव । चित्वादभिन्न: परवत्परस्मा दात्मेति वाऽत्र प्रतिपक्षहेतुः ॥ ७ ॥ रिणः प्रत्ययेनाबाध्यस्य व्यावहारिकानिर्वचनीयभेदस्यास्मदिष्टत्वात्रैव तत्साध्यम् । अन्ते दृष्टान्तहानिः पुनरेव ते स्यात् । घटादेः सुखदुःखादिविधुरात्मन्यज्ञानविल सितत्वन तद्वोधबाध्यत्वस्वीकारात्तद्वोधाबाध्यस्य भेदस्य काप्यनभ्युपगमात् । घटा दावपि व्याप्यभावेन व्याप्यत्वासिद्धेः ॥ ५ ॥ [ मुखेति । सुखमत्रेष्टविषयसंनिकर्ष जन्यं जाग्रदाद्यवच्छेदेन चित्तवृत्तिविशेषात्मकमेव । अविद्यावृत्यात्मकं तत्पुषुझाव पीति बोध्यम् । तदिति । सुखादिलक्षणोक्तवित्तादिधर्मशून्यः साक्षित्वोपलक्षितः कृट स्थाविन्मात्र इति यावत् ] ॥ १०५ ॥ एवमुक्तो मण्डन भाह । हे योगिन्ननैपाधिकभेदवत्वमिहास्मिन्ननुमाने विवक्षितम् । ननु जीवेशभेदस्य निरुपाश्कित्वेऽपि घटादिभदवन्मिथ्यात्वोपपत्तेः सिद्धसाधनताऽ त्रापि तदवस्थेत्याशङ्कयाऽऽह । त्वदिति । जीवेशभेदस्य निरुपाविकत्वे तत्त्वज्ञाना दविद्यादेर्निवृत्तावपि तत्कार्यघटादिभेदवत्ततस्तन्निवृत्तरयोगात्तत्सत्यत्वसिद्विभियौपाधिकै स्यैश्वरजीवभेदस्य तवेष्टत्वादस्माभिश्चानौपाधिकभेदवत्वस्य साध्यमानत्वान्न सिद्धसाधनं नापि दृष्टान्तहानिस्तत्र निरुपाविकभेदस्य तवेष्टत्वादित्याह । घटेशभेद इति । आख्यानकी वृत्तम् ॥ ६ ॥ [ अनौपाधिकेति । स्वपमाबाध्यपदेनैवानौपाधिकत्वं विवक्षितमिति यावत् । औपाधिकं हेि रक्तः स्फटिक इत्यादज्ञानं शुद्धः स्फटिक इत्या दिरूपेण रक्तिमाध्यासाधिष्ठानविषयकप्रत्यक्षेण सविषयकमपि बावितं भवति मिथ्या त्वान्न त्वनौपाधिकं घटपटौ भिन्नावित्यादि यथार्थत्वादित्याशयः ] ॥ ६ ॥ परिहरात भगवान्। घटेशभेदेऽप्यविद्याया उपाधित्वेनानौपविकस्य तस्य तत्रानङ्गी कारादृष्टान्तहानिरेवेत्यर्थः । किंच तवानुमानेषु जडत्वमुपाधिरेव घटादेर्जडत्वेन दृश्यतया मिथ्यात्वात्तद्रोचरज्ञानस्य घटतद्वेदहेत्वज्ञाननिवृत्ययोग्यत्वात्तत्र स्वज्ञानाबाध्यभेदवत्वं जाड्यप्रयुक्तमिति जडत्वमुक्तसाध्यव्यापकम् । साधनवति स्वपकाशात्मन्यभावात्सा