पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटी कासंवलितः । किंचागुणो वा सगुणो मनीषि न्विवक्ष्यते धर्मिपदेन नान्त्यः । भेदस्य तद्रुद्धयविबाध्यतेष्टे नऽऽद्यश्च तत्रोभयथाऽपि दोषात् ॥ ११० ॥ किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाऽऽद्यकल्पे ॥ शरीर्यभेदेन परस्य सिद्धे प्राप्रोति धर्मिग्रहमानकोपः ॥ ११ ॥ भा द्वा मुपणगा सयुजा सस्वाय त्याद्या श्रुतिभेदमुदीरयन्ती ॥ जीवेशयोः पिप्पलभोक्त्रभोक्त्रो स्तयोरभेदश्रुतिबाधिकाऽस्तु ॥ १२ ॥ पुनः प्रकारान्तरेण विकल्प्य दूषयति । किंचेति । हे मनीषिन्धर्मिपदेन किं वेदा न्ततात्पर्यगोचरः सत्यज्ञानादिरूपो निर्गुणो विवक्ष्यते किंवा ब्रहोशादिपदवाच्योऽनव च्छिन्नत्वसर्वज्ञत्वादिविशिष्टः सगुणः । न द्वितीयः । भेदस्य तत्पमाविबाध्यताया इष्ट त्वेन सिद्धसाधनत्वात् । नचाऽऽद्यपक्षः । उभयथाऽपि प्रमितत्वापमितत्वलक्षणपक्षद्व येऽपि वक्ष्यमाणविधया दोषस्य सत्वादित्यर्थः ।। १० ।। ३३३ ४२ उभयथाऽपि दोषादित्युक्तं विवृणोति । किं निर्गुणं ब्रह्म प्रमितं सत्पक्षः किंवाऽप मितम् । द्वितीये प्राप्ताऽऽश्रयासिद्धिः । अथाऽऽद्यपक्षे ब्रह्मादिपदलक्ष्यस्याद्वयानन्दस्य पत्यग्बोधात्मजीवाभेदे निर्धारिततात्पयेस्तत्वमस्यादिवेदान्तैजीवात्माभेदेन परमात्मनः सिद्धेर्षर्मिग्राहकवेदान्तप्रमाणस्य प्रकोपः प्राप्तोति । तथाच ज्योतिष्टोमो न स्वर्गफल क्रियात्वान्मर्दनक्रियावदित्यनुमानं ‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इतिवेदबाधितविष यत्वाद्यथाऽऽभासरूपं तथेद्मपीति भावः ॥ ११ ॥ [ धमति । धर्मिणः पक्षीकृतस्य बह्मणो ग्रहः पमा येन निरुक्तवेदान्तमहावाक्येन तस्य कोपो व्याकोपः प्राम्रोतीति योजना। तस्य भेदभञ्जकत्वात्तद्विरुद्धभेदसावकानुमाने तत्कोपापत्तिरित्याशाय:] ॥११॥ एवं सर्वतः प्रतिरुद्धो मण्डनोऽनुमानविरोध स्थापयितुमशक्तः श्रुतिविरोधमुद्राव यति । भो इति । 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्यनश्रअन्नन्यो अभिचाकशीति'इति श्रुतिः कर्मफलभोक्त्रभोक्त्रोजीवेशयो दमुदीरयन्ती तयोजवेशयोरभेदश्रुतेबाँधिकाऽस्तु ॥ १२ ॥