पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ श्रीमच्छंकरदिग्विजयः । प्रत्यक्षसिद्धे विफले परात्म भेदे श्रुतिने नयांवित्प्रमाणम् ॥ स्पादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥ १३ ॥ स्मृतिमसिद्धार्थविबोधि वाक्पं यथेष्यते मूलतया प्रमाणम् ॥ प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥ १४ ॥ परिहरति भगवान् । प्रत्यक्षसिद्धे विफले स्वर्गापवर्गाख्यफलशून्ये प्रत्युत ‘मृत्योः स मृत्युमाओोति य इह नानेव पश्यति' इति श्रुत्युक्तानर्थप्रदे परजीवयोर्भदे श्रुतिः प्रमाणं न स्यादत्र भेदे प्रत्यक्षपतिपन्नत्वमात्रमङ्गीक्रियते तत्र श्रुतिप्रामाण्यवारणाय न तु तत्र प्रमाणं तदसंभवस्योक्तत्वात् । सिद्धान्ते शुक्तिरूप्यवत्तस्यानुभवमात्रसिद्धत्वस्वीकारात् । अज्ञातेऽर्थे श्रुतिप्रमाणस्य न्यायेन निर्धारितवतो जैमिनेन्र्यायाभिज्ञस्य तवैवं कथनं न शोभनमिति ध्वनयन्नाह । हे नयवित् । तथाच भेदस्यान्यतः सिद्धावपूर्वत्वाभावान्न श्रुतितात्पर्यगोचरता येन वाक्येन यत्र पतीत्युत्पादनेन मानाभावप्रयुक्तासत्त्वशङ्का निवैत्र्यंते तस्य तत्र तात्पर्यमन्यथा तस्य तदर्थत्वायोगाद्यत्परः शब्दः स शब्दार्थ इति न्यायाद्विपक्षेऽपसिद्धान्तदण्डं पातयति । अन्यथा स्वार्थेऽतत्परोऽप्यर्थवादः सकलोऽपि प्रमाणं स्यात् । एतज्ज्ञातुं योग्योऽसीति सूचयितुमाह । हे विद्वन्निति । इन्द्रवज्वा वृत्तम् ॥ १३ ॥ एवमुक्तो मण्डन भाइ । 'क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत' [ सर्गः ८ ] इत्यादिस्मृतिप्रसिद्धस्यार्थस्य विबोधकतत्त्वमस्यादिश्रुतिवाक्यं मूलतया यथा प्रमाणमिष्यते तथा प्रत्यक्षेण सिद्धोऽर्थो यस्य तथाभूतं वाक्यं प्रत्यक्षस्य मूलतया ममाणं स्यात्तथाच भेदस्य प्रत्यक्षादिपवृत्तेः प्रागपूर्वताया निरपेक्षश्रुतिप्रमेयत्वाच्छूतेस्तत्र तात्पयॉपपात्तरिति भावः ॥१४॥ [प्रत्यक्षेति । साक्षिप्रत्यक्षसिद्धजीवेश्धरभेदलक्षणार्थकं

  • द्वा सुणा ' इत्यादिवाक्यम् ] ॥ १४ ॥

१ ख. ग. 'तत्तत्र । २ क. 'वर्तते ।