पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । येनेति हि स्वप्रदृशिक्रियायाः कताच्यत तत्र स जांव एव । क्षेत्रज्ञशब्दाभिहितश्च योगि न्स्यात्स्वप्रदृक्सर्वविदीश्वरोऽपि ॥ २१ ॥ तिङ्प्रत्येनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया ॥ द्रष्टा च शारीरतया मनीषि न्विशेष्यते तेन स नेश्वरः स्यात् ॥ २२ ॥ वृत्तिः शरीरे भवतीत्यमुष्मि न्नर्थे हि शारीरपदस्य योगिन् ॥ तस्मिन्भवन्सर्वगतो महेश कथं न शारीरपदाभिधेयः ॥ २३ ॥ उदाहृतपैङ्ग-यरहस्यगिराऽपि जीवपरमात्मानावेव सिध्यत इति मण्डनः शङ्कते । येनेत्यनेन हि तत्रोदाहृतागिरि स्वप्रदर्शनक्रियायाः कतोंच्यते स कर्ता जीव एव तथा क्षेत्रज्ञशब्दाभिहितः स्वप्रद्रटेश्वरोऽपि स्याद्यतो हे योगिन्स सर्वज्ञ इत्यर्थः ॥ २१ ॥ [ क्षेत्रज्ञेति । क्षेत्रज्ञ इति शब्देनाभिहितः शक्तिवृत्या प्रतिपादित इत्यर्थः ] ॥२१॥ कत्रैर्थस्य तिङ्प्रत्ययेनाभिहितत्वाच्छारीरि इति विशेषणाच मैवमिति भगवान्परि इरवि' । अत्र गिरि तिङ्प्रत्ययेन कतत्तैस्ततस्तस्मात्करणे तृतीया स्वीकर्तव्या । अनभिहित इत्यधिकारात् । द्रष्टा च शारीर इति शारीरत्वेन विशेष्यते तेन हेतुना स द्रष्टश्वरो न स्यादित्यर्थः । मनीषिणा त्वयैवं न वक्तव्यमिति संबोधमाशायः ॥ २२ ॥ [ करणे करणार्थिकैव । अभ्युपेया स्वीकार्येत्यर्थः । न तु कर्यनभिहित इत्यधिकारादिति यावत् । तस्मात्तदेतत्सत्त्वं येन स्वग्रं पश्यति' इत्युदाहृतश्रुतौ जीवस्य स्वप्रावलोकनसाधनभूतान्त:करण एव सस्वशब्दस्य शक्तिः श्रुत्यैव कण्ठतः प्रकटिता न तु जीव इति स्फुटमेवेति भावः ] ॥ २२ ॥ एवमुक्तो मण्डनः सत्वपदस्य जीवे वृत्तिं प्रतिपादयितुमशक्तः शारीरपदस्य परमा त्मान वृत्ति दर्शयति । शरीरे भवतीत्यस्मिन्नर्थे हि यस्माद्धे योगिञ्शारीरपदस्य वृत्ति स्तस्मात्सर्वगतत्वात्तस्मिञ्शरीरे भवन्महेशः शारीरपदाभिधेयः कथं न भवेदपि तु भवे देव ॥ २३ ॥ १ ख. 'ति । ति'। ३३७ २ क. 'क्तस्तस्मा'।