पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

तैचोदितः कश्चन राजशेखरः स्वप्रे मुहुँदृष्टतदीयवैभवः ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥ २ ॥
तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तद्भ्याशगतोग्रहारः कालव्यभिख्योऽस्ति महान्मनोज्ञः ॥ ३ ॥
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे विद्याधिराज इति विश्रुतनामधेयः ।।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः॥४॥
पुत्रोऽभवत्तस्य पुरात्पुण्यैः सुब्रह्मतेजाः शिवगुर्वेभिख्यः ॥
ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाकृत लब्धवर्णः ॥ ५ ॥




 तेन लिङ्गात्मनाऽऽविर्भूतेन मद्देशेन प्रेरितः कश्चन राजशेखराख्यो महीपः पुनः
पुनः स्वप्रे दृष्टस्तदीयो वैभवो येन स एकं प्रासादं देवालयं पारिकल्प्य तस्य विभो
संपूजनं पवर्तितवान् ‘स्यादिन्द्रवंशा ततजैरसंयुतैः' ।। २ । [ तचोदित इति ।
अन्तयमितया तत्प्रेरित इत्यर्थः ] ॥ २ ॥
 तस्य प्रणतार्तिहर्तुरीशास्य प्रसादात्प्राप्तो निरीतिभावोऽयम् । ईतयस्तु ।

‘अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः ।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृता


 इत्युक्ताः षड्बाधा ज्ञेयाः । एवंविधस्तस्य प्रासादस्य समीपगतः कश्चित्काल
टिसंज्ञोऽतिरम्योऽप्रहारो ब्राह्मणप्रधानो ग्रामोऽस्ति ।। ३ ।।
 इहास्मिन्नग्रहारे विद्याविराज इति विश्रुतनामेधयो निश्चलमतिः कश्चित्पाण्डितो
विरेजे । स वृषाद्रिनिलयोऽवरीतुकामोऽवतरणेच्छुर्यस्य पुत्रमात्मपितरं समरो
चयत्स विरेज इति वाऽन्वयः । ‘उक्तं वसन्ततिलकं तभजा जगौ गः' ॥ ४ ॥
[ निश्चलेति । एतेन तत्र योगाभ्यासपरिपाकोऽपि व्यज्यते ] ॥ ४ ॥
 तस्य विद्याविराजस्य पुरा पूर्वमनेकजन्मस्वातैरर्जितैः पुण्यैः सुष्ठु ब्रह्मतेजो यस्य
स शिवगुरुसंज्ञः पुत्रोऽभवत् । यो ज्ञाने शिवो वचने गुरुर्तृहस्पतिस्तस्य पुत्रस्य
लब्धवर्णो विचक्षणो विद्याविराजोऽन्वर्थनामार्थानुरूपं नामाकृत संज्ञां कृतवान् ।

‘धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।
इत्यमरः । ‘स्यादिन्द्रवप्रा यदितौ जगौ गः' ॥ ५ ॥




 

सर्वपुस्तकेष्वेवमेवोपलभ्यते पुंस्त्वं तु लिङ्गस्य लोकाश्रयत्वात्कथंचिद्धेोध्यम् ।




 

१ छ. तन्नौदि'। २ ग. येन ।।