पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्पटीकासंवलितः । अथ नवमः सर्गः । अथ संयमिक्षितिपतेर्वचनै निंगमार्थनिर्णयकरैः सनयैः ॥ शमिताग्रहोऽपि चुनरप्यक्द त्कृतसंशयः सपदि कर्मजडः ॥ १ ॥ यतिराज संप्रति ममाभिनवा न विषादितोऽस्म्यपजयादपि तु ॥ अपि जैमिनीयवचनान्यहो न्मथितानि हीति भृशमस्मि कृशः ॥ २ ॥ स हि वेत्यनागतमतीतमपि मियकृत्समस्तजगतोऽधिकृतः । निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥ ३ ॥ इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ॥. प्रमिमीमहे न वयमेव मुने हृदयं यथावदनभिज्ञतया ॥ ४ ॥ ३४३ एवं मण्डनाचार्यसंवादं सपरिकरं निरुप्य सार्वज्ञयोपायं सप्रपञ्चं निरूपयितुमुपक्र मते । अथाऽऽचार्ययुक्तीनां सरस्वतीकृतानुमोदनस्य स्वगलस्थमालाया मलिनीभावस्य चानन्तरं संयमिराजस्य श्रीशंकरस्य वेदार्थनिर्णयकरैः पुनश्च न्यायसहितैर्वचनैः शमित आग्रहो यस्य स तथाभूतोऽपि सपदि तत्क्षणे कृतसंशयः पुनरवोचद्यत: कर्मजडः । मिताक्षरा वृत्तम् । ‘ममिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ १॥ [ संयमीति । एतेन वक्ष्यमाणपरकायप्रवेशादि योगैश्वर्यमूलीभूतं योगन्द्रित्वं ध्वन्यते ] ॥ १ ॥ यदुवाच तदाईं । अपि हे यतिराज संप्रति ममाभिनवादपजयाद्विषादं न प्राप्तोऽ स्म्यपि तु जैमिनीयवचनानि । अहहेति निपातावाश्चर्यातिशयार्थावत्यन्तखेदाथा वा । उन्मथितानीतिकारणादत्यन्तं कृशोऽस्मि ॥ २ ॥ हि यस्मात्स जैमिनिर्भविष्यंभूतं च जानाति पुनश्च जगतःप्रियकरणाथैवेदस्य वेदार्थस्य वाप्रवर्तनविधावधिकृतस्तथाचैवंभूतस्तपसां िनधिः स कथं वितथसूत्रपदो वितथानि व्यर्थनि सूत्रपदानि यस्य वितथसूत्रेषु व्यवसायेो वा यस्य तथाभूतः कथं भवेदित्यर्थ ॥ ३ ॥ इत्येवं संदेहं प्राप्तवतं तं मण्डनमसौ श्रीशंकरोऽवोचत् । जैमिनौ मनागीषदप्यप १ ग. 'चत यतः । २ क. 'ह । हे । ३ घ. ‘णार्थे वे'। ४ ग. 'न्तं म'।