पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] तिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।। इति सूत्रयच्ननु कथं मुनिरा डपि सिद्धवस्तुपरतां मनुते ॥ ८ ॥ श्रुतिराशिरद्वयपरोऽपि परं परयाऽऽत्मबोधफलकर्मणि च ॥ प्रसरत्कटाक्ष इति कार्यपर त्वमसूचि तत्प्रकरणस्थगिराम् ॥ ९ ॥ ननु सचिदात्मपरताऽभिमता यदि कृत्स्रवेदनिचयस्य मुनेः ॥ फलदातृत्तामपुरुषस्य वद न्स कथं निराह परमेशमपि ॥ १० ॥ यैव स च मोक्षपरो जैमिनिर्धर्मनिचयं निरवारयन्नान्यथेति वयं मन्मह इत्यध्याहारः ॥ ७ ॥ [ धर्मेति । पुण्यगणं विदधात्यनुष्ठयत्वेनोपदिशतीत्यन्वयः । तदपेक्षयैव चित्तशुद्धिद्वारा निरुक्तसाक्षात्कारोदयेच्छयैवेत्यर्थः ] ॥ ७ ॥ ननु ‘आम्रायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ इति सूत्रयन्वेदस्य सिद्धवस्तुप रतां कथं मनुत इति मण्डनः शङ्कते। श्रुतयः क्रियार्थकतया सफला अक्रियार्थकानि तु वचांसि वृथौऽनर्थकानीति सूत्रयन्मुनिराङ्केदवचसां सिद्धवस्तुपरतां ननु कथं मनुत इत्यर्थः ॥ ८ ॥ [मुनिराडपि मननशीलशिरोमणिरपीत्यर्थः ] ॥ ८ ॥ उक्तसूत्रस्य कर्मकाण्डाभिप्रायत्वान्मैवमिति पारिइरात भगवान् । श्रुतिराशिः परंप रयाऽद्वितीयब्रह्मपरोऽप्यात्मबोधः फलं यस्य तस्मिन्कर्मणि प्रसरत्कटाक्षः प्रवाहीकृत दृष्टिरित्यतः कर्मपकरणस्थगिरां कार्यपरत्वमसूचि सूत्रतवान् ।। ९ । [ परंपरया तद्वेोधोदयसामग्रीभूतचित्तशुद्धयादिजनकक्रमसरण्येत्यर्थः ] ॥ ९ ॥ नन्वेवं तर्हि फलदातृत्वं कर्मणः स्वीकृत्य परेशं किमर्थं निराहेति मण्डनः शङ्कते। ननु कृत्स्नवेदकदम्बस्य सचिदात्मपरता यदि मुनेरभिमता तर्हि पुरुषात्परमात्मनो भिन्नस्य कर्मणः फलदातृत्वं वदन्सन्मुनिः परमेश्वरमपि कथं निराठतवानित्यर्थः॥१०॥ [ मुनेर्जेमिनेः ] ॥ १० ॥ ३४५ १ ग. 'था व्यथ ' ।