वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ॥ |
वेदेष्वधीतेषु सत्सु तदर्थे च विचारिते सति शिष्यानुराग्याचार्यस्तं शिवगुरुमाह
स्म मोक्तवान् । षड़िः शिक्षाकल्पव्याकरणच्छन्दोज्योतिर्निरुक्तसंशैरङ्गः सहितः सर्वो
वेदो मत्तस्त्वया पठितो विचारितश्च कालस्ते तव बहुरतिक्रान्तः । उपजातिच्छन्दः॥८॥
[ व्यचारि पूर्वोत्तरमीमांसाभ्यां कापिलपातञ्जलसाख्यद्वयकाणादाक्षचरणन्यायद्वया
नुगुणिताभ्यां विचारित इत्यर्थः ] ॥ ८ ॥
यद्यपि त्वं भक्तस्तथाऽपि संपतीदानीं गेहं व्रज संबन्धिजनोऽपि ते तव दर्शन
लालसः स्यात्तस्मात्कदाचिद्रत्वा स्वजनप्रमोदं विधेहेि शिष्यस्य पुत्रतुल्यत्वात्संबोधनं
हे तात मा विलम्बयस्व विलम्बं मा कुरु ।
‘अाख्यानकी तौ जगुरु गमोजे जतावनोजे जगुरू गुरुश्चेत्’ ॥ ९ ॥ |
[कदाचित्स्वेत्याद्येकं पदम् । तथाच कदाचित्कस्मिाश्चद्वयवहारप्रसङ्गे यः स्वजन
संबन्धिजनवत्प्रेमशीलोऽन्यत्र तूदासीनस्तस्य यः प्रमोदस्तमपि विधेहीति संबन्धः ।
एवं च मात्रादिवास्तविकस्वजनप्रमोदविधानं कैमुत्यसिद्धमेवेति भावः । अन्यथा कदा
चिद्रमनं विवक्षितं चेन्मा तात विलम्बयस्वेति वाक्यशेषासांगत्यं स्यात् ] ॥ ९ ॥
विलम्बो न कर्तव्य इत्युक्तं तत्र हेतुमाह । यत इहास्मिलोके यदपराहे विधातु
मिटं तदायुरादेः क्षणभङ्गरतां विजानता पुरुषेण पूर्व पूर्वीह एव विधेयमेवमिह य
अछूोऽनागतेऽह्नि कर्तुमिष्टं तद्द्य विधेयमिति विनिश्चितोऽर्थस्तस्मान्मा विलम्बयस्वे
त्यर्थः । उपेन्द्रवज्रा वृत्तम् ।। ५० ।।
['धःकार्यमद्य कर्तव्यं पूर्वाण्हे चाऽऽपराह्निकम्' |
इत्यादिनीतिशास्रमर्यादां तद्रहगमनलक्षणसमावर्तनत्वराथै प्रथयति । विधातु
मिति ] ॥ १० ॥
किश्च यथा काल उद्भवकाल उप्तात्क्षेत्रे रोपिताद्वीजादिह यादृशं सस्यं जायते