पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । हन्तेदृशोऽयं विषयानुरागः किंचोध्वरेतोत्रतखण्डनेन । किंनोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृती विवेचकुम् ।। ८६ ।। ब्रतमस्मदीयमतुलं क् मह त्क च कामशास्त्रमतिगहमिदम् ।। तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥ ८७ ॥ अधिमेदिनि प्रथयितुं शिथिलं धृतकङ्कणस्य यतिधर्ममिमम् ।। भवत: किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥ ८८ ॥ स निशम्य पञ्चरणस्य गिरं गिरांति स्म गीष्पतिसमप्रतिभः ।। अविगीतमेव भवता फ़णितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९ ।। ३६७ तथाचैवंविधोऽयं विषयानुरागः किंचोध्र्वरेतोव्रतखण्डनेनोल्बणं पापं किं ते नोद येदपि तृदयेदेव । तथाच यत्कर्तव्यं तद्भवानेव विवेत्तुं कृती समर्थः । इन्द्रवज्रा वृत्तम् ॥ ८६ ।। किंचास्मदीयमतुलं महद्व्रतं क क चेदमतिनिन्द्य कामशास्त्रं तदपि भवतैव यदी ज्यते तह्यस्मिलोके जगदनवस्थितमेव भवेत् । तथाचोक्तम् ।

  • यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते' इति । मभिताक्षरा वृत्तम् ॥ ८७ ॥ [ इहैव कल्पारम्भकाल एव ] ।। ८७ ॥ इदं न मया विदितं ज्ञापितं सर्वज्ञत्वात्तव किंतु प्रेम्णोदितमित्याह । शिथिलमिर्भ यतिधर्म भूमौ प्रकटयितुं धृतकङ्कणस्य गृहीतप्रतिज्ञस्य भवतोऽविदितं किमस्ति न किमपि तथाऽपि हे भगवन्प्रणयादिदं मयोक्तम् ।। ८८ ।। एवं पद्मपाद्वाक्यमुदाहृत्याऽऽचार्यस्य तदुदाहर्तुमाह । पद्मपादस्य वचः श्रुत्वा वाचस्पतितुल्या प्रतिभा यस्य स उक्तवान्यद्यपि त्वयाऽनिन्दितमेव कथितं तथाऽपि हे सौम्य श्रोतुं सावधानो भव परमार्थमिदं कथयामि ॥ ८९ ।।