पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ श्रीमच्छंकरदिग्विजयः । असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसस्वस्य । वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ।। ९० ॥ सकलप एवास्खलकाममूल स एव मे नास्ति समस्य विष्णोः ॥ तन्यूलहाना भवपाशानाश कर्तुः सदा स्याद्रवदोषदृष्टः ॥ ९१ ॥ अविचार्य यस्तु वपुराद्यहमि त्यभिमन्यते जडमतिः सुदृढम् ।। तमबुद्धतत्वमधिकृत्य विधि प्रतिषेधशास्रमस्विलं सफलम् ॥ ९२ ॥ [ सर्गः ९] किं तदित्यपेक्षायामाह । असङ्गिन आसक्तिविनिर्मुक्तस्य कामा न भवन्ति तत्र दृष्टान्तो गोपवधूसखस्य श्रीकृष्णस्येव किंच यो वज्रोलिसंज्ञकयोगप्रतिभूमिः स एष वत्स नोऽस्माकमवकीर्णित्वस्य रेतःपातेन क्षतत्रतत्वस्य विपर्ययस्तदभावः तस्या रे आकर्षणसामथ्र्यसंपादकत्वात् । उपजातिवृत्तम् ॥ ९० ।॥ [ वज्रोलीति । तदुक्त इठपदीपिकायाम् । महनन शनः सम्यगृध्वाकुश्वनमभ्यसत् । पुरुषो वाऽपि नारी वा वज्रोलीं सिद्धिमामुयात् ' इति । तलक्षणो योगश्चित्तनिरोधविशेषः प्रतिभूः ‘स्युर्लमकाः प्रतिभुवः' इत्यमर न्नियतसंपादको यस्य स तथा ] ।। ९० ।। किंच संकल्प एवाखिलाभिलाषस्य मूलं स एव कृष्णतुल्यस्य मम नास्ति तथा सदैव संसारदोषदृष्टेः कर्तुरपि काममूलस्य संकल्पस्य हानौ सत्यां भवपाशनाइ स्यात् ।। ९१ ॥ [मे समस्य ‘निदोषं हि समं ब्रह्म' इति च तद्वचनादद्वैतब्रह्मरूपस् विष्णोर्वेष्टि कल्पितं द्वैतं व्यवहारदृशा व्याप्रोतीति तथा तस्येति यावत् ] [ क रपि यावत्प्रारब्धं व्यवहर्तुरपि ] ॥ ९१ ॥ नन्वेवं तर्हि विधिप्रातिषेधशास्त्रं निष्फलं स्यादिति चेत्तत्राऽऽह । यस्तु देहाः विचार्य देहादेर्जडत्वादिनाऽनात्मत्वमविचायहमित्यहंप्रत्यालम्बनमात्मानं सुदृढमा मन्यते यतो जडबुद्धिस्तमबुद्धतत्त्वमधिकृत्य सर्व विविप्रतिषेधशास्त्रं सफलम् ! प्रमि क्षरा वृत्तम् ॥ ९२ ॥