पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । आदौ तदङ्गमुदयन्मुखकान्ति पश्चा ऋासान्तनिर्यदनिलं शनकैः परस्तात् । उन्मीलदङ्कत्रिचलनं तदनूद्यदक्षि व्याकोचमुत्थितमुपात्तबलं क्रमेण ॥ ७ ॥ तं प्राप्तजीवमुपलभ्य पतिं प्रभूत हर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।। नार्यो विरेजुररुणोदयसंप्रफुछ पभाः ससारसरवा इव वारिजिन्यः ।। ८ ।। हर्ष तासामुदितमतुलं वीक्ष्य वामेक्षणाना मात्तमाणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ॥ दध्मुः शङ्खान्पणवपटहान्दुन्दुभीश्चाभिजघु स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ।। १०२९ ॥ क्रमेणेत्युक्तं तत्र केन क्रमेणेत्याकाङ्क्षायां क्रमं निरूपयति । आदौ तस्याङ्गं गात्रमुदयन्ती मुखकान्तिर्यस्मिस्तथाभूतं पश्चान्नासान्तनिर्गच्छन्पाणवायुर्यस्मिञ्शनकैः पश्चादुन्मीलचरणयोश्चलनं यस्मिस्ततः पश्चादुद्यन्नेत्रयोव्यकोचः संकोचविनिर्मको यस्मिन्नित्येवंक्रमेणोपात्तबलं सदुत्थितम् । वसन्ततिलका वृत्तम् ।। ७ । [ उद्यदिति । उद्यन्नाविर्भवन्नक्षिव्याकोचो नेत्रविकासो यत्र तत्तथेत्यर्थः ] ।। ७ ।। तं प्राप्तजीवं पतिमुपलभ्य प्रभूतो हर्षयुक्तः शब्दो यासां ममुदितानि मुखकम लानेि यासां ता नाय विरेजुः । तत्र दृष्टान्तः । अरुणोदयेन संप्रफुलानि कमलानि यासु ताः सारसानां शब्देन सहिताः पुष्करिण्य इव ॥ ८ ॥ [ अरुणोदयेति । अरुणोदये सम्यक्प्रफुलानि पद्मानि यासां ताः ] ।। ८ ।। तासां वामेक्षणानामुदितं हर्ष वीक्ष्य नृपतिमप्यात्तप्राणं वीक्ष्य महामात्यपमुख्याः महृष्टाः सन्तः शङ्खान्पूरितवन्तः पणवादीन्वाद्यविशेषांश्चाभिजघुस्तषां शङ्खादीनां शब्दा द्यां भूमिं च बधिरीचक्रिरे । मन्दाक्रान्ता वृत्तम् ॥ १०२९ ॥ [ द्यां द्युलोकम् ।। १०२९ ॥ १ घ. 'द्यन्नक्ष्णोव्य'। २ क. ग. घ. 'निमोको ।