पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । धृतचामीकरदण्डसितातप वारणरञ्जितरलकिरीटम् ।। श्रितविग्रहमिव रतिपतिमाश्रित भुवमिव सान्तःपुरममरेशम् ॥ ४३ ॥ रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ॥ समतिसृष्टास्तत मुस्वरं मूर्छनापदविदस्ते जगुमेहयन्तः सभाम् ॥ ४४ ॥ रतारारूयात्रविधभेदभित्रैकविंशत्यन्यतममूर्छनाविशेषजातं तेन समुलसन्नग्रिमदेशो यस्य तमित्यर्थः ] ॥ ४२ ॥ पुनश्च धृतश्चामीकरो हिरण्मयो दण्डो यस्य तथाभूतेन सितेनाऽऽतपवारणेन च्छत्रेण रञ्जितं रत्नकिरीटं यस्य तं स्वीकृतविग्रहं रातिपतिमनङ्गमिव । यद्वा । श्रित भूमिमन्तःपुरसहितं देवेशं पुरंदरमिव ॥ ४३ ॥ ज्ञया दत्तासना राज्ञा सम्यगाज्ञप्ता मूर्छनापदविदस्ते सभां मोहयन्तः सुस्वरं जगुः । मृछन्नालक्षण तु ।

  • क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।

सा मृर्छत्युच्यते ग्रामस्था एताः सप्त सप्त च' इति । 'श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः । पञ्चमो धैवतश्याथ निषाद् इति सप्त ते' इत्युक्ताः सप्त । सामान्यतः स्वरस्वरुप तु 'श्रुत्यनन्तरभावी यः निग्धोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते' इति । श्रुतिर्नाम स्वरारम्भकावयवविशेषस्तदुक्तम् । ‘प्रथमश्रवणाच्छद्वः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा' । इति ३८७ १ ख. "प्तम इ'।