पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ भृङ्ग तव संगतिमपास्य गिरिशृङ्गे तुङ्गविटपिनि संगमजुषि त्वदङ्गे । स्वाङ्गरचिताः सकलुषान्तरङ्गा संगमकृते भङ्गमुपयन्ति भृङ्गाः ॥ ४५ ॥ श्रीमच्छंकरदिग्विजयः । अथ मामलक्षणम् यथा कुटम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां संदोहो ग्राम इत्यभिधीयते । षडुग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्भामत्रयमुदाहृतम् । मन्दाचरोऽथ जीमूतः समुद्रो ग्रामकास्त्रयः । षडु मध्यमगान्धारास्त्रयाणां जन्महेतव वं:’ इति । [ सर्गः १० ] तथाचैवंभूतग्रामत्रयेऽपि प्रत्येकं सप्त सप्त च मूर्छना इत्येकविंशतिमूछना भवन्ति । तथाभूतमूर्छनापदविदस्ते सुस्वरं जगुरित्यर्थः । यत्र च्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः मात्कम् ॥ ४४ ॥ गानव्याजेन स्वगुरुप्रतिबोधनं कृतवतां तद्रानमुदाहरतेि । हे भृङ्ग श्रुतिसूत्रादिल क्षणकुसुममकरन्दास्वादनशील तव संगतिं संगममपास्य विहायोचवृक्षवति गिरिशृङ्गे संगमजुषि त्वदङ्गे तव शरीरे सति त्वच्छरीरस्य रक्षणाय रचिताः सकलुषं दुःखयु क्तमन्तरङ्गमन्तःकरणं येषां ते भृङ्गाः शिष्यास्तव संगमाथै भङ्गमुपैयन्ति भेदं प्रामुव न्तीत्यर्थः । ‘इन्दुवदना भजनैः सगुरुयुग्मैः’ ॥ ४५ ॥ [ अथ ते पद्मपादादयः संगीतच्छझना तादृगवस्थं श्रीमद्भगवत्पादं प्रति श्रीमद्भिरिन्दुवदनावलम्बनेन च्छन्दः सदृशस्य सरस्वत्यादीन्प्राति मासमात्रोत्तरं प्रत्युत्तरं प्रदास्यामीत्यादि प्रतिज्ञाघटित स्ववाक्यस्य भङ्ग एव संपादित इति द्योतयितुम् ‘इन्दुवदना भजसनै: स गुरुयुग्मै:’ इति डिण्डिमोदाहृतेन्दुवदनावृत्तेन प्रथमपादे समुपक्रम्याग्रे यच्छन्दो नोक्तमत्र गाथेति तत्सू रिभिः प्रोक्तमिति तदुदाहृतगाथालक्षणैकादशगीतानुकूलगधैः स्वगुरुमपि नृपशरीराव च्छिन्नत्वात्यबोधार्हतया प्रबोधमिव चक्रारीति सृचयंस्तद्रीतान्युदाहरति । भृङ्गेत्या दिना ] ॥ ४५ ॥ १ क. 'पयान्ति । २ क. "म् । नन्दावतोंऽथ । ३ क. सुभद्रो । ४ क. 'तिमूर्छ'। ५ कः