पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । विषमविषयेषु संचारिणोऽक्षा चान्दोषदर्शनकशाभिघाततः ॥ स्वैरं संन्निवत्र्य स्वान्तरश्मिभिधरा बभ्रन्ति यत्र तत्त्वमसि तत्त्वम् ।। ५० ।। ३९१ कोऽयं हेतुरिति चेन्न । अकृताभ्यागमकृतविपणाशारूयबावकसद्भावात् । तथा विवादा स्पदः प्राण आत्मा न भवति जडत्वाद्धटवन् । तथा मनोमय आत्मा न भवाति विका रत्वाद्देहवत् । तथा विज्ञानमय आत्मा न भवति विलयाद्यवस्थावत्वाद्वटादिवत् । तथाऽऽनन्दमयोऽप्यात्मा न भवति कादाचित्कत्वादभ्रवत् । तस्मादानन्द एवाऽऽत्मा भवितुमर्हति नित्यत्वात् । य आत्मा न भवति नासौ निन्यो यथा देहादिः । ‘आत्मन आकाशः संभृत:’ इत्यादिश्रुत्याऽऽकाशादेरनित्यत्वावगमान्नानैकान्तिकतेति । नन्वाङ् पृर्वादनास्यविहरणे वर्तमानाद्ददातरात्मनेपदं स्यादित्यर्थकौतू ‘आडो दोऽनास्यविहरणे इति सूत्रादाददत इति भवितव्यमिति चेन्न । भिक्षामाददातीति पयोगवदत्र डिद्विाश घटस्याऽऽकारस्याग्रहणेनाऽऽददतीति पयोगस्य साधुत्वात् । सूत्रे डिद्विशिष्टाकार ग्रहणस्याडिद्विशिष्टादाकारानुत्तरस्य ददातेरात्मनेपदाभावज्ञापनार्थत्वात् || ४९ ॥ [अन्नेति । अत्र तुषपदेन पञ्चानामपि कोशानां तुच्छत्वं ध्वन्यते ] ॥ ४९ ॥ सर्वेन्द्रियालम्बनं तत्त्वं त्वमेवेति स्मारयन्ति । यथा विषमदेशेषु स्वैरं संचारिणोऽ धान्कशाभिघातेन राश्मिभिः सम्यङ्निवत्र्य शहूँ बन्नन्ति तथा विषमेषु विषयलक्षणेषु देशेषु स्वैरं संचारिण इन्द्रियलक्षणान्हयान्दोषदर्शनलक्षणकशाभिघातेन मनोवृत्तिलक्ष णरश्मिभिर्यस्मिन्परमात्मतत्त्वे धीमन्तो बन्नन्ति तत्तत्वं त्वमसि । तथाच श्रुतिः । आत्मानं रथिनं विद्धि शारीरं रथमेव तु । बुद्धिं तु सारार्थे विद्धि मनः पग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । यस्तु विज्ञानवान्भवति युतेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' इति ॥ ५० ॥ [ पीरा धियमीरयन्ति सद्मद्विचारे प्रेरयन्तीति तथा विवेकेन धैर्यवन्तः पुरुषा इत्यर्थः] ॥ ५० ॥