पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । व्यावृत्तजाग्रदादिष्वनस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् ॥ इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सूरयस्तत्वमसि तत्त्वम् ॥ ५१ ॥ पुरुष एवेदमित्यादिवेदेषु सावात्म्य हाटकस्यव मुकुटादतादात्म्य सरसमात्रायते तत्त्वमसि तत्त्वम् ॥ ५२ ॥ यश्चाहमत्र वष्र्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोहमिति ॥ वेदवादिनो व्यतिहारतो यदध्यापयन्ति पत्नतस्तत्त्वमसि तत्त्वम् ॥ ५३ ॥ अथ जाग्रत्स्वप्रसुषुप्त्युपाधिविलक्षणं तत्त्वं त्वमसीति स्मारयन्ति । अभात्मा जाग्र दाद्युपाधिभ्योऽन्यो व्यावर्तमानेषु तेष्वनुस्यूतत्वात्पुष्पेभ्यः सूत्रमिवत्येवमुपाधित्रयपृथ क्त्वेन यत्सूर्यो जानान्ति तत्तत्त्वं त्वमसि । स्पष्टं चेदं जनकयाज्ञवल्क्यादिसंवादेन श्रुत्या प्रतिपादितम् ॥ ५१ ॥ [ सूरयः शुकादयो विद्वांसः । व्यावृत्तेति । परस्पर भिन्नजाग्रदाद्यवस्थास्वित्यर्थः ] ॥ ५१ ॥ किश्च 'पुरुष एवेदं सर्वे यदूतं यञ्च भव्यम्’ ‘सर्वं खल्विदं ब्रह्म तजलान्’ ‘सदे सौम्येदम्’ ‘एकमेवाद्वितीयम्’ ‘ऐतदात्म्यमिदं सर्वम्’ ‘यथाँ सौम्यैकेन लोहमणिन सर्वे लोहमयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम्’ इत्या दिवेदेषु सर्वकारणतया सुवर्णस्य यथा कटकमुकुटादितादात्म्यं तथा यस्य सार्वात्म् [ सर्गः १०]

  • ख. ए. घ. 'सि । ५१ । किं"। २ ख. ग. "व सोम्ये '।

कुटकादि। 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्तिश्च लिङ्गान्येतानि षट्क्रमात्' इत्युक्तषाड़वतात्पर्यलिडै: स्वारस्येनोपदिश्यते तत्तत्वं त्वमासि ॥ ५२ ॥ किंच यश्चाहमस्मिञ्शरीरे विभामि सोऽसौ रविमण्डलस्थोऽस्ति योऽसौ रविमण्ड विभाति सोऽहमस्मीत्येवं व्यतिहारेण वेदवादिनः प्रयत्नतो यत्तत्वमध्यापयन्ति तत्तः त्वमसि । तथाच श्रुतिः । ‘तद्यत्तत्सत्यम्'। 'असौ स आदित्यो य एष एतस्मिन्मण्ड पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ' इत्याद्या ॥ ५३ ।। ३ ख. ग. "था सोम्यै'। ४