पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्मादस्मत्कल्पितेष्वच्र्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ॥ इष्टानर्थावृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ।। ७१ ।। तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।। आकस्मिकं विस्मयमीयुरुचैः ॥ ७२ ॥ तस्या यतीशाजितभर्तृयतित्वजात वैधव्यसंभवशुचा भुवमस्पृशन्त्याः । अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेस्वरश्च ॥ ७३ ॥ मण्डनमिश्रोऽप्यथ विधिपूर्व दत्त्वा वित्तं यागे सर्वम् ।। आत्मारोपितशोचिष्केशो भेजे शंकरमस्तमिताशः ॥ ७४ ।। एवं स्तुत्याऽभिमुखीकृत्य प्राथ्र्यमाह । तस्मादृष्यशृङ्गादिकेषु क्षेत्रेष्वस्मन्नि र्मितानि यानि तव स्थानानि तेषु पृज्यमाना शारदाख्या त्वमिष्टानर्थान्दिशन्ती पुनश्च पापं सतां संनिधानं यया तथाभूताऽऽस्स्व ।। ७१ ।। तथाऽस्त्विति प्रतिज्ञाय सा सरस्वती पितामहस्य प्रियं वाम पायात्तत्र संसदि तस्या अदर्शनं समीक्ष्यात्यन्तमाकस्मिकं विस्मयं पापुः ।। ७२ ।। एवं सदस्यानां मनोवृत्तं पदश्र्य मण्डनयतशयेोस्तदाह । यतीशेन जितस्य भर्तुर्य तित्वाजाताद्वैधव्यात्संभवन शोकेन भुवमस्पृशान्त्यास्तस्याः स्वभार्याया अन्तर्धानमेक्ष्य मण्डनोऽपि मुदितोऽभूत् । तत्साधु समीचीनं वीक्ष्य यतिशेखरोऽपि मुदितोऽभूत् । वसन्ततिलका वृत्तम् ॥ ७२ ततः किं वृत्तमित्यपेक्षायामाह । अथ शारदान्तर्धानाद्यनन्तरं मण्डनमिश्रोऽपि विधिपूर्व ‘तद्वैके प्राजापत्यामेवेटिं कुर्वन्ति । प्राजापत्यां निरूप्येष्टि सार्ववेदसदक्षिणाम् । ‘आत्मन्यमीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ३९९ १ क. 'स्मयमापुः ।। । ए ७२