पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ श्रीमच्छकरदिग्विजयः । सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः ॥ आदाय वाच्यमविरोधि पदद्वयं त लक्ष्यैकबोधनपरं ननु को विरोधः ॥ ८७ ॥ [ सर्गः १० ] पोपाविसत्वादप्रयोजकत्वमस्येति चेन्न । तमसोऽपि भावरुपत्वात्तमोऽभावरूपमिति वादी प्रष्टव्यः । किमालेोकाभावमात्रं तमः किं वा रूपदर्शनाभावमात्रम् । भाद्येऽपि किमेकं तम एकैकालोकाभावः किंवा सर्वालोकाभावः । भाद्येऽपि किं प्रागभाव उत पध्वंसाभाव अनाहास्विदन्यांन्याभाव । त्रितयमपि न संभवाते सवितृ किरणसंतते देशे प्रदीपालोकजन्मविनाशयोः सतोस्रयाणां सत्वेऽपि तमोबुद्धय दर्शनात् । ननु प्रागभावाद्यवस्थासु तमोबुद्धयभावो विरोध्यालोकनिबन्धन इति चेत्तथाऽपि विरोध्यभावसहितप्रागभावादेस्तमोबुद्धयालम्बनत्वस्यावश्यैवक्तव्य त्वेन विरोध्यभावगिरा प्रागभावो#ी पध्वंसेऽनुपपत्तिः । तदुक्तौ प्रागभावे । अन्यो न्याभावोक्तावालोकसत्वेऽपि तदभावस्य भावात्तमोबुद्धिः स्यात् । द्वितीयेऽपि किमस्य सर्वेषामालोकानां संनिधानं निवर्तकमुतैकैकस्य । आचे सर्वालोकमन्तरेण तन्निवृत्तिर्न स्यात् । द्वितीयेऽप्येकैकस्य सर्वालोकाभावनिवर्तकत्वाभावात्तमोबुद्धयापत्तिः । अन्त्येऽपि किमेकैकस्य रूपस्य दर्शनाभावः उत सर्वस्य । अनाद्येऽपि किं रुरूपदर्श नमात्राभाव उत यत्र तमोबुद्धिस्तत्रत्यरुपदर्शनाभावः । नाऽऽद्यः । बहुलान्धका रसंवृतापवरकान्तरवस्थितस्यापि बहीरुपदर्शनेन सहापवरकान्तस्तमोदर्शनात् । न द्वितीयः । मागभावादिविकल्पासहत्वात् । ननु रूपवतो द्रव्यस्य स्पर्शवत्वनियमात्तद्र हितं तमः कथं रूपद्रव्यमवगम्यते । तथाच प्रयोगस्तमं नीरुपं स्पर्शविधुरत्वादाकाशा वदिति चेन्न । वायोरन्यत्र स्पर्शवद्रव्यस्य रूपवत्वनियमेऽपि रूपरहितस्य स्पर्शवतो वायोरभ्युपगमात्तथाच यत्स्पर्शवत्तदूपवद्यथा घटादिरिति व्यासेर्यथा वायौ भङ्गस्तथा यदूपवत्तत्स्पर्शवदिति व्यापेस्तमसि सङ्गः । न च प्रमाणाभावः । तमालमालाश्यामलं तम इत्युपलम्भादिति संक्षेपः ॥ ८६ ॥ एवमुक्तो गुरुराह । सत्यमियं विरोधावगतिस्तु वाच्यगाऽस्ति । एवमर्धमङ्गीकृत्यैक्यं कथं प्रतिपादयेदिति यदुक्तं तत्राऽऽह । सोऽयं पुमानिति वाक्यवदस्मिन्वाक्ये विरोधहानेरविरोधिवाच्यमादाय पदद्वयं तयोर्लक्ष्यक्यबंधनपरमेवं सति न कोऽपि विरोधः । अयमर्थः । यथा सोऽयं पुमानिति वाक्ये तच्छब्दार्थस्य तत्कालविशिष्टस्य पुंस इदंशाब्दार्थस्यैतत्कालविशिष्टस्य पुंसश्चक्यासंभवेऽपि सोऽयमिति पदयं जहद १ ख. ग. ध. आहेो अ'। 'ध्। २ क. ३यवैि । ३ ख. ग. घ. रोधाभा । ४ घ. दा