पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ श्रीमच्छंकरदिग्विजयः । [ सर्गः १० ] स्तीराद्रिन्नो लिप्यते नापि तेन । एवं देही संचरञ्जाग्रदादौ तस्माद्रिन्नो नापि तद्धर्मको वा ॥ ९० ॥ जाग्रत्स्वप्रमुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः ।। क्लप्तं रज्ज्विदमंशके वमुमती छिद्राहिदण्डादिव त्तब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥ ९१ ॥ प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं दूरं तदेव परिमूढमतेर्जनस्य । अन्तर्बहिश्च चितिरस्ति न वेति कश्चि चिन्वन्बहिर्बहिरहो महिमाऽऽत्मशत्तेः ॥ ९२ ॥ नन् जाग्रत्स्वप्रसंचारिणस्तदभिन्नत्वात्तद्धर्मकत्वाद्वा कथं परमात्मनोऽभेदेन चिन्त नीयत्वमिति चत्तत्राऽऽह । यथा महामत्स्यस्तरात्तीरं संचरंस्तीराद्भिन्न एव न त्वभिन्नो नाॉप तेन तीरेण लिप्यते । एवमाध्यासिकसंबन्धेन देह्यात्मा जाग्रदादौ संचरं स्तस्माद्भिन्न एव नापि जाग्रदादिरूपधर्मवान्वा । तथाच श्रुतिः । तद्यथा महामत्स्य उभे कृले अनुसंचरति पृर्व चापरं चवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्रान्तं च बुद्रान्तं च' इति । शालेनी वृत्तम् ॥ ९० ॥ तर्हनुभूयमानं जायदाद्यवस्थात्रयं कस्यति चेत्तत्राऽऽह । जामदादिलक्षणमिदम वस्थात्रयं व्यभिचारं गच्छद्बुद्धिसंज्ञकं चित्स्वरूपे त्वय्येवानुगते कल्पितम् । तत्रेन्द्रि यजन्यज्ञानावस्था जाग्रदवस्था । इन्द्रियाजन्यविषया परोक्षज्ञानावस्था स्चमावस्था । अविद्यागोचराऽविद्यावृत्यवस्था सुषुप्त्यवस्था । अनुवृत्तं व्यावृत्तं कल्पितमित्यत्र दृष्टान्तमाह । रजोरिदमंशेऽनुवृत्तं व्यावृत्तं भूमिच्छिद्रपर्पदण्डादि यथा कल्पितं तद्वत् । तस्मादवस्थात्रयपरत्वातुरीयं शिवं चतुर्थमित्युक्तमत एव परित्यक्तनिरिवलभयं ब्रहास तस्मात्पर्ववद्रमं मा गाः । शार्दूलविक्रीडितं वृत्तम् ।। ९१ ।। एवं भूतं स्वात्मानं जनः किमिति नावगच्छतीति न शङ्कर्नयमात्मशाक्तर्महिम्रोऽ निर्वचनीयत्वादित्याशयेनाऽऽह । प्रत्यक्तमं प्रातिलोम्येनासजडदुःखात्मकाहंकारादिि लक्षणतया सचिदानन्दात्मत्वेनाञ्चति मकाशात् इति प्रत्यगातशयेन प्रत्यागत प्रत्य क्तमं परं पदं विदुषः समीपस्थं परिमृढमतेर्जनस्य तदेव दृरमंवंविधं चैतन्यमन्तर्व गा तथाऽपि कश्चनाशुद्वचित्तो बहिर्बििश्चन्वन्न वेत्ति । अहो आत्मशरेरयं महिमा