पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुमान्पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् ॥ विधिं निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसंभवः ॥ १०० ॥ आराधितं दैवतमिष्टमर्थ ददाति तस्याधिगमो गुरोः स्यात् ॥ नो चेत्कथं वेदितमीश्वरोऽय मतीन्द्रियं दैवतमिष्टदं नः ॥ १ ॥ तुष्ट गुरौ तुष्यति देवतागणो रुष्ट गुरौ रुष्यति देवतागणः ॥ पश्यन्नसौ विश्वमयो हि देशिकः ॥ २ ॥ एव पुराणगुरुणा परमात्मतत्त्व शिष्टो गुरोश्चरणयोर्निपपात तस्य ॥ धन्योऽस्म्यहं तव गुरो करुणाकटाक्ष पातेन पातिततमा इति भाषमाणः ॥ ३ ॥ ४०९ ननु विहितानुष्ठानात्प्रतिषिद्ववर्जनाचेष्टलाभोऽनिष्टनिवृत्तिश्च भविष्यत्यतः किं गुरु सेवयेत्याशङ्कवाऽऽह । यद्यपि प्रतिषिद्धसेवनान्निवृत्तो विहितं भजन्पुमान्पुमथै लभते तथाऽपि विधिनिषेधौ न स्वतो विज्ञातुं शक्यैौ किं त्वसैौ गुरुरेव विधिं निषेधं च निवेदयति । तस्माद्रुरोरेवानिष्टच्युतिरिष्टोत्पत्तिश्च । वंशस्थं वृत्तम् ॥ १०० ॥ नन्वाराधितं दैवतमेवेष्टमथै ददातीत्याशङ्कयाऽऽह । आराधितं दैवतमर्थं ददाति तथाऽप्यस्य दैवतस्य प्राप्तिर्गुरोरेव भवति नो चेन्नोऽस्माकमिष्टदमतीन्द्रियं दैवतमयमज्ञो वेदितुं विज्ञातुमीश्वरः समर्थः कथं स्यान्न केनापि प्रकारेणेत्यर्थः । उपजातिवृत्तम् ॥ १ ॥ देवगणस्य गुरुतुष्टयाद्यनुतुष्टयादिमत्वात्स एव प्रयत्नेन तोषणीय इत्याशये नाऽऽत् । तुष्ट इति । हि यस्मात्सदैव सदूपा आत्मदेवता आत्मभावेन पश्यन्नसँ देशिको विश्धमयः ॥ २ ॥ न्ततिलका वृत्तम् ॥ ३ ॥ एवं पुराणगुरुणा श्रीशंकराचार्येण परमात्मतत्त्वं प्रति शिक्षितो हे गुरो तव कटा क्षपातेन दुरीकृताज्ञानोऽहं धन्योऽस्मीति भाषमाणस्तस्य गुरोश्चरणयोर्निपपात । वस