पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ श्रीमच्छकरदिग्विजयः । [ सर्गः १० ] नमन्मोहभङ्गं नभोलेहिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षिभृङ्गम् ॥ समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तुङ्गं ददर्शशलिङ्गम् ॥ ११ ॥ प्रणमद्रवबीजभर्जनं प्रणिपत्यामृतसंपदार्जनम् ॥ प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ १२ ॥ तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः । आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकाष्ण्ययाः ॥ १३ ॥ तत्रातिचित्रपदमत्रभवान्पवित्र कीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ॥ अग्राहयत्कृतमसद्वहनिग्रहार्थ मयान्समग्रमुगुणान्महदग्रयापी ॥ १४ ॥ इति विश्वप्रकाशः । तथाभूतायां कलिकल्मषविनाशसमर्थायां पातालगामिगङ्गायां स श्रीशंकरः स्नानं कृतवान् । ‘आयप्रथमदलोत्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गतिं गीतवान्भुजंगेशः’ ॥ १० ॥ तं तुङ्गमारुह्य शिवलिङ्ग ददर्श । तुङ्गं विशिनष्टि । नमतां मोहस्य भङ्गो यस्माद्भ गनास्वादनशीलानि शृङ्गाणि यस्य त्रुटन्पापस्य सङ्गो यस्माद्रटन्तः पक्षिणो भ्रमराश्च यस्मिन्सम्यगालेङ्गिता पातालगामिगङ्गा येन प्रहृष्टमन्तरङ्ग मनो यस्येति जडस्य सम नस्त्वमारोप्येयमुक्तिः । क्रियाविशेषणं वा । भुजङ्गप्रयातं वृत्तम् ॥ ११ ॥ ततश्च प्रणमतां संसृतिबीजानामविद्याकामकर्मवासनानां भर्जनं पुनश्च मोक्षलक्षणा मृतस्य संपादकं भ्रमराख्याम्बासहायं नतोऽर्जुनो यस्मै तथाभूतं मलिकार्जुनसंज्ञ परमेशलिङ्गं प्रणिपत्य प्रकर्षेण मोदमवाप । वियोगिनी वृत्तम् ॥ १२ ॥ [ अमृतसं पदो मोक्षलक्ष्म्या आर्जनमासमन्तात्संपादनं यस्मात्सः ] ॥ १२ ॥ ततश्च तीररुहैराम्रादिवृक्षः श्यामायास्तिरोहितमुष्णं यस्यां यया वाऽऽवर्जित तृट्तृष्णा च यस्या निरस्तं काष्ण्र्थ यस्यास्तथाभताया नद्यास्तर आचार्थेन्द्रोऽ वात्सीत् । गीतिः ॥ १३ ॥ [ आवाजता स्वसौष्ठवप्रकटनद्वारा सुसंपादिता तृष् स्वविषयकरातर्यया सा तथा ] ॥ १३ ॥ तत्र तमिस्तीरे पवित्रकीर्तिििचत्राणां सुचरित्राणां निर्मिहृदयाय्यत्रभवान्पूज्