[ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ॥ योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥ जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय ।। जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४ ॥ आसीनमुचीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् । चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः । प्रापोद्यतासि: सविधं स याव द्विज्ञातवान्पद्मपदोऽपि तावत् ॥ ३६ ॥ ४२३ ल्पसमाधिनिष्ठोऽभूदित्यन्वयः । तत्र प्रत्यहारधारणाध्यानानि हेतुत्वेन द्योतयस्तं विशिनष्टि । समाहितेत्यादिशेषेण ] ॥ ३२ ।। भैरैवो भैरवाकारः कापालिकः सनत्सुजातादेः सकाशादनल्पम् । आख्यानकी वृत्तम् ।। ३३ ॥ [ सनदित्यादि । सनत्सुजातादेरप्यनल्पं महान्तमित्यर्थः] ।॥३३॥ अंससंधिप्रदेशे चिबुकमधरोष्ठावःप्रदेशं निधाय व्यात्तास्यं विवृतमुखं जानूपर्यु तानकरौ निधाय । साम्यर्धम् । कान्तं शोभन्तम् । उपजातिवृत्तम् ॥ ३४ ॥ [मेक्षितेति । निरीक्षितनासिकाग्रमित्यर्थः] ॥ ३४ ॥ उच्चीकृतमुचैः कृतं पूर्वगात्रं शिरोभागो येन । सिद्धासने । 'मेढ़ादुपरि विन्यस्य सव्यं गुल्फे तथोपरि । गुल्फान्तरं च विन्यस्य सिद्धाः सिद्धासनं विदुः’ इत्युक्त आसीनं शेषितमवशेषितं चिन्मात्रं येन तत्रैव विन्यस्त इन्द्रियवगों येन समाधिना विस्मारितः सर्वेसगों येन ॥ ३५ ॥ एवं तं श्रीशंकरं विलोक्यापास्तशङ्कः स्वबुद्धिपूर्वमर्जितस्तीव्रः पङ्कः पापं येन मोद्य १ ग.घ. 'रवाख्यो भै"। २ क. 'धितं वि'।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति