पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीम वजयः । चन्द्रांशुसोदर्यसटाजटालं तातीयनेत्राब्जकनन्निटालम् ॥ सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकृदट्टहासम् ॥ ५४ ॥ नस्वाग्रनिर्भिन्नकपालिवक्ष स्थलोचलच्छोणितपङ्किलाङ्गम् । श्रीवत्सवत्संगलवैजयन्ती श्रीरत्नसंस्पर्धितदबामालम् ॥ ५५ ॥ मुरासुरत्रासकररातिघोर स्वाकारसारव्यथिताण्डकोशम् ।। दंष्ट्राकरालानननिर्यदमि ज्वालालिसंलीढनभोवकाशम् ॥ ५६ ॥ स्वरोमकूपेोद्वतविस्फुलिङ्ग प्रचारसंदीपितसर्वलोकम् ॥ जम्भद्विडुज्तृम्भितशंभुदम्भ संस्तम्भनारम्भकदन्तपेषम् ॥ ५७ ॥ [ सर्गः ११] साक्षात्कारेणोन्मथिताः कारणादित्रय उपाधयो यस्य स श्रीशंकरो नेत्रे उन्मील्य करालवक्त्रं मानवपश्चास्यं नृसिंहमवलोकयन् ।। ५३ ।। तं विाशेनाष्टि । चन्द्रकिरणसदृशाभिः सटाभिर्जटालं व्याप्तं ततीयनेत्रकमलेन कनत्स्फुरन्निटालं मस्तकं यस्य सहोद्यतां सूर्यसहस्राणां भा इव भा यस्य ब्रह्माण्डवि स्फोटकरोऽट्टहासो यस्य तम् ।। ५४ ।। नखाग्रेण निर्भिन्नात्कपालिवक्षस्थलादुचलच्छगितस्य पङ्केन व्याप्तान्यङ्गानि यस्य तं श्रीवत्सो नाम रोम्णामावर्तस्तेन युक्तं दक्षिणवक्षो यस्य तम् । ‘वत्सः पुत्रादिवर्षयोः । ‘तर्णके नोरसि झीबम्’ इति मेदिनी । गले वैजयन्त्या श्रीरत्नेन कौस्तुभमणिना च संस्पर्धिनी तस्य कपालिन अत्राणां माला यस्य तम् ॥ ५५ ॥ देवासुरत्रासकरस्यातिवोरस्य स्वाकारस्य सारेण बलेन व्यथितोऽण्डकोशो येन दंष्ट्राभि: करालान्मुखान्निर्गच्छदन्निज्वालालिभि संलढः समास्वादितो नभोवकाशो येन तम् ॥ ५६ ॥ स्वरोमकूपेभ्य उद्रतानां विस्फुलिङ्गानां प्रचारेण संदीपिताः सर्वलोका येन जम्भम