४३१० श्रीमच्छकरदिग्विजयः । सकलभीतिषु दैवतैम स्मर न्सकलभीतिमपोह्य सुखी पुमान् ।। भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ।। ६२ ।। स्मृतवतस्तव पादसरारुह मृतवतः पुरुषस्य विमुक्तता ।। तव कराभिहतोऽमृत भैरवो न हि स एप पुनर्भवमेष्यति ॥ ६३ ।। दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणा भवान् ।। सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥ ६४ ॥ [ सर्गः ११ ] स्मादस्मिन्काले युग्वाय शान्त पापुहि । तवैतन्नोचितमिति साक्षपमाह । रुद्रगुणं तमः सत्त्वगुणा विष्णुस्त्वं कथमाश्रयसं ॥ ६१ !। एवं कोपशान्ति प्रार्थयित्वा स्तैतैि । हे दैवर्तम सकलभीतिषु स्मरंन्सैन्सर्वभयम पोह्य पुमान्मुखी भवति । तव दर्शने सति किं प्रवदामि' स यद्भवति न तद्वतुं शक्य मित्यर्थः । तस्मात्तव दर्शनं परमदुर्लभमेव ।। ६२ । [ सकलेति । हे अ ‘अकारो वासुदेवः स्यात्' इत्यकाक्षरकोशादयि विष्णो इत्यर्थः । दैवतं स्वस्वोपास्यपारमेश्वरली लाविग्रहविशेषावच्छिन्त्रं हरिहरादिपदवाच्यं चैतन्यमिति यावत् ] ।। ६२ ।। अथ कापालिकस्य वमोक्षाय व्याजनाऽऽह । तव पादकमलं स्मृतवतो मृतवतः पुरुषस्य विमुक्तता भवति । अयं तु भैरवस्तव करेणाभिहतः सन्मृतोऽतः स एष पुन संसृतिं न प्राप्स्यतीत्यर्थः ।। ६३ ।। भक्तरक्षणं तद्वचनपालनं च तव स्वभाव एवेत्याह । दितिजस्य हिरण्यकशिपो पुत्रममुं दुःखार्दितं प्रह्लादमुदारगुणो भवान्सकृद्रक्षत् । कासाविति पित्रा पृष्टेन तेनोदीरितं सर्वत्रैवास्तीति सर्वगत्वमस्फुटं प्रकटमेवविधातुमिच्छुः पुरोऽग्रे भवान्प्रा दुरभूत् || ६४ ।। १ ग. ‘तमं स्म। २ ख. सत्त्वगणी । ३ ग. *ति । दै'। ४ ग. ‘तमं त्वां स'। ५ ख. 'रन्स वै'। ६ ग. घ. "न्स स'। ७ ख. ग. "मि य'। ८ क. ख. चं प्रह्लादममुमुदा ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति