पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ग्रहग्रहाकि जडवद्विचेष्टते किंवा स्वभावादुत पूर्वकर्मणः ॥ संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान्मधुमना बहुमुश्रुतान् ॥ ४६ ॥ शिष्यैः पशिष्यैर्बहुपुस्तभारै समागतं कंचन पूज्यपादम् ॥ शुश्राव तं ग्राममनिन्दितात्मा निनाय सूर्नु निकटं स तस्य ॥ ४७ ॥ न शून्यहस्तो नृपमिष्टदैवं गुरु च यायादात शास्त्रावत्स्वयम् । सोपायनः प्राप गुरुं व्यशिश्रण त्फलं ननामास्य च पादपङ्कजे ॥ ४८ ॥ अनीनमत्तं च तदीयपादयो जर्जडाकृतिं भस्मनिगूढवह्निवत् । स नादातष्ठत्पाततः पदाम्बुज प्राय: स्वजाड्यं प्रकटं विधित्सति ॥ ४९ ॥ ४५१ अधुना तत्पितृचेष्टां दर्शयति । तत्पितेत्येवमनिशं संचिन्तयन्समागतान्बहुश्रुतान्य छुटुमनास्तिष्ठति स्म ॥ ४६ ॥ [ ग्रहेति । ‘ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैहिकेयोपरागयो इति मेदिन्याः प्रकृते ग्रहः पूतनादिः पिशाचविशेष एव तत्कर्तृकत्वात्तस्य यो ग्रहो ग्रहणं तस्माद्धेतोरित्यर्थः ] ॥ ४६ ॥ ततः कदाचिद्वहुपुस्तकभारैः शिष्यैः सह तं ग्रामं प्रति समागतं कंचन पूज्यपादं शुश्राव । ततश्चानिन्दितात्मा स प्रभाकरस्तस्य पूज्यपादस्य निकटं पुत्रं नीतवान् । आाख्यानकी वृत्तम् ॥ ४७ ॥ किं शून्यहस्त एव गतो नेत्याह । शून्यहस्त इति । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुम्’ इति शास्त्रवित्स्वयं सोपायनो गुरुं श्रीशंकरं प्राप। किं तदुपायनमित्यपेक्षायामाह । फलं व्यशिश्रणत्मायच्छत् । अस्य गुरोः पादकमले ननाम च । उपजातिवृत्तम्॥४८॥ भस्मना निगूढवह्निवजडतुल्याकृतिं तं पुत्रं च तदीयपादयोरनीनमत् । भस्मनीति भित्रं वा पदम् । स पुत्रः प्रायः स्वजाड्यं प्रकटं विधातुमिच्छति ॥ ४९ ॥