पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ :] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अध्यापयामास स भाष्यमुख्या न्ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् । आकर्णनप्राप्यमहापुमर्था नादिष्ट विद्याग्रहणे समर्थान् ॥ ६६ ॥ पराणुदत्प्राणितमांस्यशेषम् ॥ निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७ ॥ प्रकल्प्य तत्रेन्द्रविमानक्कल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।। प्रवर्तयामास स देवतायाः । पूजामजाचैरपि पूजतायाः ॥ ६८ ॥ या शारदाम्बेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती । अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान्दिशन्ती ॥ ६९ ॥ तस्मिन्पर्वते मनीषिमुख्याञ्श्रवणमात्रेण प्राप्यो महापुरुषार्थो मोक्षो यैस्तानुपादिष्ट विद्याग्रहणे समर्थान्स श्रीशंकरो भ,प्यपमुखान्निजान्ग्रन्थानध्यापयामास । आकर्णनेन प्राप्यो महापुमर्थो येभ्यस्तान्ग्रन्थानिति वा ॥ ६६ ।। शेषमनन्तं मन्दाक्षनम्र लज्जया नम्र त्र कलयन्कुर्वन्निवाशेषं यथा स्यात्तथा प्राणि नामान्तरतमांस्यज्ञानानि पराणुदपाकरोत् । यतो वाचम्पतिना निर्विशेषं यथा भवति तथा निरस्तजीवेश्वरयोर्विशेषपं व्याचष्ट । उपजातिवृत्तम् ॥ ६७ ॥ ततश्च तस्मिन्पर्वत इन्द्रविमानसदृशमाविष्कृतसर्वशिल्पं प्रासादं प्रकल्प्याजादैरपि पूजिताया देवतायाः पृजां स प्रवर्तयामास । अत्र पाश्वः । मठं कृत्वा तत्र विद्यापी ठनिर्माणं कृत्वा भारतीसंप्रदायं निजशिप्यं चकार । स याति नरकं घोरं यावदाभूतसंप्लवम्' । कंचिाच्छष्यं सुरेश्वराख्यं पीठा ध्यक्षमकरंदिति ॥ ६८ ॥ सा देवता केत्याकाङ्क्षायामाह । येति ।। ६९ ॥ ४५७ १ घ. 'ज्ञां खलु पा । २ घ. महापुरुषार्था । ३ घ. 'स्यपा'।