पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ श्रीमच्छंकरदिग्विजयः । रयमज्ञातसुपर्वसूक्तिकोऽपि ॥ दययैव गुरोस्रयीशिरोर्थ स्फुटयनैक्षि विचक्षणः सतीथ्र्यः ॥ ८२ ॥ अथ तस्य बुधस्य वाक्यगुम्फं निशमय्यामृतमाधुरीधुरीणम् ॥ जलजाङ्घ्रमुखाः सतीथ्र्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥ ८३ ॥ भत्तयुत्कपोत्प्रादुरासन्यताऽस्मा त्पद्यान्येवं तोटकाख्यानि सन्ति । तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्यं मुनीन्द्रम् ॥ ८४ ॥ अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ॥ शिष्टैर्गुहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ८५ ॥ [ सर्गः १२] अथानन्तरमयमज्ञाताः सुप्रस्तावा यासु तथाभूताः सूक्तयो येन तथाभूतोऽपि । पर्व क़ीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति मेदिनी । गुरोर्दययैव तोटकवृत्तपद्यजातैस्रयशिरसामर्थ स्फुटयन्सतीयैर्गुरोः शिप्यैर्विचक्षण ऐक्षि दृष्टः । मालभारिणी वृत्तम् ॥ ८२ ॥ [ अज्ञातेति । भकलित गीर्वणवागपीत्यर्थः ] ॥ ८२ ॥ अथानन्तरं तस्य वाक्यानां संदर्भममृतमाधुरीधुरीणं निशम्य पद्मपादप्रमुखाः सत थ्र्यवर्या गर्व परित्यज्य सविस्मया बभूवुः ॥ ८३ ॥ तोटकाख्यपद्यपादुर्भाव एव तदाख्यामवृत्तिनिमित्तमित्याह । भक्तीति । यतोऽस्मा द्रिरेः सान्त समीचीनानि तोटकसंज्ञानि पद्यानि प्रादुरासंस्तस्मादेनं शिष्ट वंशापसृतं शिष्टा वेदाचाररतास्तेोटकाचार्यमाहुः । शालिनी वृत्तम् ॥ ८४ ॥ वेदान्तवेद्यपरतत्त्वनिवेदनं यत्तत्प्रकरणमद्यापि पृथिव्यां तत्संज्ञया मथितम् । तद्वि शिनाष्टि । लघु सन्महान्तोऽथ यस्मिन्ननल्पा नीतयो युक्तयो यस्मिन्नतिश्रेष्ठपदैरनु विद्धं युक्तं तदत एव शिष्टगृहीतम् । वसन्ततिलका वृत्तम् ॥ ८५ || [ पञ्चश्लोका त्मकत्वालघुत्वम् । चतुर्लक्षण्यखिलशास्त्रार्थसारसंग्राहकत्वान्महार्थत्वम् । शिष्यप्रार्थ