पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिरिकृतडिण्डिमाख्पटीकासंवलितः । अनन्यसाधारणमस्य भाव माचार्यवर्ये भगवत्यवेक्ष्य ॥ तुष्टा त्रिवत्र्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥ १७ ।। पदानि तेषु प्रणिधाय युष्म त्सकाशमागाद्यदयं महात्मा । ततोऽतितुष्टो भगवांश्चकार नाम्रा तमेनं किल पद्मपादम् ।। १८ ।। स एव युष्मञ्चरणारविन्द सेवाविनिर्धतसमस्तभेदः ॥ आजानसिद्धोऽर्हति सूत्रभाष्ये वृत्ति विधातुं भगवन्नगाधे ॥ १९ ॥ यद्वाऽयमानन्दगिरिर्यदुग्र तपःप्रसन्ना परमेष्ठिपत्नी ॥ भवत्प्रबन्धेषु यथाभिसंधि व्याख्यानसामथ्र्यवरं दिदेश ॥ २० ॥ कर्मकतानमतिरेष कथं गुरो ते विश्वासपात्रमवपद्यत विश्चरुपः ॥ भाष्यस्य पद्मपद एव करोतु टीका मित्यूचिरे रहसि योगिवरं विधेयाः ॥ २१ ॥ ४६९ त्रिवत्र्मा त्रिमार्गा गङ्गा ॥ १७ ॥ [ भगवतीति । दीर्घच्छेदे गङ्गविशेषणं च च्छेदे त्वाचार्यवर्यविशेषणमिति बोध्यम् । मादुष्करोति स्म पादुर्भावयामास ]॥१७॥ तेषु तुष्टया त्रिपथगया प्रादुष्कृतेषु वरकमलेषु पदानि संस्थाप्य भवत्सकाशं यतोऽयं महात्माऽऽगतवांस्ततोऽतिसंतुष्टो भवांस्तमेनं नाम्रा खलु पद्मपादं चकार ॥ १८ ॥ अभाजानसिद्धः स्वभावत एव सिद्धः ॥ १९ ॥ यद्वाऽयमानन्दगिरिः सूत्रभाष्ये वृतिं विधातुमर्हति । यतो यस्योग्रतपसा प्रसन्ना सरस्वती भवदभिप्रायानुसारिव्याख्यानसामथ्र्यवरं दिदेश ॥ २० ॥ हे गुरो कर्मकतानमतिरेष विश्वरूपस्तव कथं विश्वासपात्रमवपद्यत तत्पात्रभूतो जातोऽतः कमैकतानमतेर्विश्वरूपस्याविश्वसनीयत्वाद्भाष्यस्य पद्मपाद एव टीकां करो. त्विति रहसि योगिवरं श्रीशंकरं शिष्या उचिरे । वसन्ततिलका वृत्तम् ॥ २१ ॥