पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ श्रीमच्छकरदिग्विजयः । अथ चतुर्दशः सर्गः । अथाब्जपात्कर्तुमनाः स तीर्थ यात्रामयाचिष्ट गुरोरनुज्ञाम् ।। देया गुरो मे भगवन्ननुज्ञा देशान्ददृक्षे बहुतीर्थयुक्तान् ॥ १ ॥ स क्षेत्रवासो निकटे गुरोय वासस्तदीयाडूघ्रिजलं च तीर्थम् ।। गुरुपदेशेन यदात्मदृष्टि सैव प्रशस्ताऽस्खिलदेवदृष्टिः ।। २ ।। शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे । विशिष्य मार्गश्रमकशैितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥ ३ ॥ द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तदुभुत्सोः ॥ तत्त्वंपदार्थक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ।। ४ ।। [ सर्गः १४] अथ पद्मपादकृतां तीर्थयात्रां निरूपयितुमुपक्रमते । अथानन्तरं स पद्मपादस्ती र्थयात्रां कर्तुमना गुरोरनुज्ञामयाचिष्ट । याश्वामेवाऽऽह । हे भगवन्गुरोऽनुज्ञा देया बहुतीर्थयुक्तान्देशान् द्रष्टुमिच्छामि । उपजातिवृत्तम् ॥ १ ॥ एवं पार्थितो गुरुरुवाच । गुरोर्निकटे यो वासः स एव क्षेत्रवासः ॥ २ ॥ यस्मादुरुसमीपे स्थितस्य देशान्तरगमनप्राप्यं समस्तं प्राप्तमेवाभूत् । शुश्रूषमाणेन शिष्येण गुरोः समीपे स्थेयं गुरुसमीपादन्यदेशे नैव गन्तव्यम् । यतोऽन्यत्र गमने संन्यासधर्मदौर्लभ्यं दुःखबाहुल्यादित्वतिरिच्यत इत्याशयेनाऽऽह । अतिशयेन मार्गश्रमेण कर्शितस्य निद्राभिभृत्या किमपि त्वंप्रदादिचिन्तनीयं न संभवति ॥ ३ ॥ अयं संन्यासश्च द्विधा । विद्वत्संन्यासो विविदिषासंन्यासश्चेति द्विपकारक उक्त स्तत्र विबुद्धतत्त्वस्य विक्षेपनिवृत्त्या जीवन्मुक्तिसुखार्थ आद्यस्तत्वबुभुत्सोस्तत्वंपदैक्ये तदर्थोऽयं भवदादिभिराश्रितो द्वितीय उक्तः । तस्मात्तदर्थं त्वमर्थः प्रयत्नाच्छोधनीयो न तु तदपघातकं तीर्थाटनादि कर्तव्यमिति भावः ॥ ४ ॥ १ घ. 'कार उ'।