पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संभाव्यते व च जलं क च नास्ति पाथ शय्यास्थलं कचिदिहास्ति न च क चास्ति । शय्यास्थलीजलनिरीक्षणसक्तचेता पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ५ ॥ ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।। स्थातु च गन्तु च न पारयत तदा सहायोऽपि विमुञ्चतीमम् ॥ ६ ॥ स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।। इक चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ।। ७ ।। नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान्गुरुपाश्र्ववासः । श्रेयानिति प्रथमसंयमिनामनेका न्देशानवीक्ष्य हृदयं न निराकुलं मे ।। ८ ।। तीर्थयात्रायास्तदभिघातकत्वं स्फुटयन्नाह । संभाव्यत इति । पाथो जलम् । इह मार्गे । वसन्ततिलका वृत्तम् ।। ५ ।। किंच यदि चेज्वरातिसारादिरोगजालं बाषेत तर्हि कोऽप्युपायो नास्ति । न पारयेत नैव शकुयात् । उपजातिवृत्तम् ।। ६ । [ अपिनाऽन्यो विमुञ्चतीति कैमुत्य सिद्धमेव ] ।। ६ ।। न च क चेति वा मध्यमणिन्यायेनोभयत्र संबन्धनीयम् ।। ७ । [ प्रभाते पात:- काले स्नानं न भवति । चः समुचये । देवतामानसार्चनं यद्यपि भस्मस्नानं विवायापि कर्तु शक्यमथापि तदपि तदा जिगमिषाक्षिप्तचित्तत्वात्रैव भवतीत्यर्थः] ।। ७ ।। एवमुक्तः पद्मपाद उवाच । यद्यपि गुरुवर्चस उत्तरं नास्ति तथाऽपीहोत्तरं वक्ष्ये । एवं प्रतिज्ञां विधाय यत्स क्षेत्रवास इत्याद्युक्तं तत्राऽऽह । सत्यमिति । गुरुसमीप वासः श्रेयानिति भगवान्यदाह तत्सत्यं तथाऽप्याद्या ये संयमिनस्तेषामनेकान्देशानवीक्ष्य मे हृदयमव्याकुलं न भवति । हे संयमिनां प्रथमेति वा । वसन्तातिलका वृत्तम् ॥ ८ ॥ ४८९ १ ख. 'चनस्योत्त'।