पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४८९ यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्रो मयाऽत्र न खलु क्रियते पुमर्थे ॥ चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःस्वहेतुः ॥ २० ॥ नैको मागें बहुजनपदक्षेत्रतीर्थानि याता चौराध्वानं परिहर मुखं त्वन्यमार्गेण याहि ।। विप्राग्रपाणां वसतिविततिर्यत्र वस्तव्यमीष नो चेत्सार्ध परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१ ॥ सद्रिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ॥ कायकेशं विभिद्युः सततभयभिदः श्रान्तविश्रान्तवृक्षा स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥२२॥ एवमुक्तो गुरुरुवाच । यदीति । अत्र तीर्थसेवारूपे पुरुषार्थे चित्तस्थैर्यावगतये मया निषेधो विहित एवमनुज्ञाप्य शिक्षणं करोति । अतिदुःखहेतुर्विशेषगमनं माभूत् । वसन्ततिलका वृत्तम् ॥ २० ॥ किंच यतो बहुजनपदक्षेत्रतीर्थानि गच्छतामेको माग न भवत्यतैश्चैौराध्वानं परि त्यज सुखं यथा स्यात्तथा त्वन्यमार्गेण गच्छ । किंच विपाणां वसतिविततिर्निकेतन पङ्किर्यत्र तत्र वस्तव्यम् । तत्रापीषन्न तु बहुकालं । विपाणां वसतिवितातनस्ति चेत्प रिचितजनैः सहोद्दिष्टं देशं ३ीघ्धं याहि । मन्दाक्रान्ता वृत्तम् ॥ २१ ॥ [ उद्दिष्ट देशं संकेतितक्षेत्रादिदेशम् ] ॥ २१ ॥ किच सद्भिः सङ्गो विधेयो हि यस्मात्स सङ्गः सज्जनानां सुखनिचयं जनयति । कुत इत्यत आह । यतस्तैः प्रशान्तै: श्राव्यमाणा अध्यात्मैक्ये कथा: काय । विभिद्युः । ता विशिनष्टि । घटितो बहुरसो यासु । सततं यदूयं संसृतिलक्षणं तद्भिन्दन्तीति तथा । सततं भयं भिन्दन्तीति वा । तथा संसृसिमार्गे श्रान्तानां विश्रामवृक्षाः पुनश्च मनःश्रोत्राभिरामाः परिमार्जिता तृष्णा पिपासा च याभिः । क्षोभितः क्षुलक्षणः कलङ्क याभिस्ताः । स्रग्धरा वृत्तम् ॥ २२ ॥ [ अध्यात्मैक्ये विषये ] ॥ २२ ॥

  • ख. ग. घ. 'तां चोरा' । २ ख. ग. घ. 'तथोरा' । ३ क. तङ्कवाञ्छ। पि' ।