पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदििग्वजयः। सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत्स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ॥ स्वल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥ २३ ॥ मार्गे यास्पन्न बहुदिवसान्पाथसः संग्रही स्या तस्माद्दोषो जिगमिषुपदप्राप्तिविन्नस्ततः स्यात् ॥ प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे लाद्भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ २४ ॥ मार्गे चोरा निकृतिवपुष संवसेयुः सहैव च्छन्नात्मानो बहुविधगुणैः संपरीक्ष्या: प्रयत्नात् ॥ देवान्वस्त्रं लिखितमथ वा दुर्विधा नेतुकामा विश्वासोऽतोऽपरिचितवृषु प्रोज्झनीयो न कार्यः ॥ २५ ॥ तिष्ठयुश्चेद्रिक्षवस्तेऽभिगम्याः । पूज्याः पूज्यास्तद्यतिक्रान्तिरुग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥ २६ ॥ [सर्गः १४] यत्स्वस्यान्तेऽयं सङ्गस्तपति संतापयति । चो हेतौ । यतो दुःखजालं पसूयते । यतो वियोगात्पूर्वकाले वाससमये सङ्गः सुखदः प्रसिद्धस्तथाच लोक एकमपि वस्तु सततविमलं निर्दोषं पायो नास्ति । मन्दाक्रान्ता वृत्तम् ॥ २३ ॥ किंच बहदिवपान्मार्गे यास्यअवलमात्रस्यापि संग्रही न स्याद्यतस्तस्मात्संग्रहात्स र्वस्वहरणरूपो दोषःस्यात्ततस्तस्माद्दोषाद्रन्तुमिच्छोरभिलषितपदप्राप्तिविन्नः स्यात् । किंचोद्दिष्ट देशं प्राप्य तत्र वस वापं कुरु । अन्यथा मध्ये वापे क्रियमाणे कार्यस्य निरसनं बावः सिद्धेर्मलाशोऽभिलषितपद प्राप्त्यभावश्च स्यान् ॥ २४ ॥ सर्देव वसेयुः । ते प्रयत्नात्सम्यक्परीक्ष्या यतस्ते द्रष्टा देवान्वस्त्रं पुस्तकं वा नेतु कामाः । अतोऽपरिचितनरेषु प्रकर्षेण हेयो विश्वासः कदाऽपि न कर्तव्यः ॥ २५ ।। किंच मार्गस्य मध्ये ततो बहियजनाभ्यन्तरे वा भिक्षवश्चेत्तिष्ठयुस्तर्हि तेऽभि गम्या यतः पूज्याः पूजायोग्याः पूयनीया यतस्तेषां व्यतिक्रान्तिरुग्रा यतः श्रेय स्काथै निष्फलीकर्तु समर्थाः । शालिनी वृत्तम् ॥ २६ ॥